संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशउत्तराखण्डकण्वनगरीकोटद्वार

कण्वाश्रमवसन्तोत्सवे योगिनां शक्तिप्रदर्शनं , दन्तै: कर्षितं यानम् , वक्षस्थले पाषाणत्रोटनं, अग्निगोले निर्गमनम् च

।कोटद्वारं। ऋषिकुमाराणां वैदिकोच्चारणमंगलेन सह
परमार्थवैदिकगुरुकुलकण्वाश्रमे त्रिदिवसीयस्य वसंतोत्सवकार्यक्रमस्य तृतीयदिवसे विशेषयोगशक्तीनां प्रदर्शनं संजातम्। परमार्थनिकेतनस्य महामुनिपूज्यस्वामी- चिदानन्दसरस्वत्या: मार्गदर्शने एवं पूज्यस्वामीविश्वपालजयन्तस्य अध्यक्षतायां वसन्तोत्सवकार्यक्रम: शुक्रवासरे अपि दर्शनीय: आसीत् । अवसरेस्मिन् पूज्यस्वामी विश्वपालजयन्तमहाराज:, आचार्य: मनमोहननौटियाल: एवम् अरविन्दभट्ट: , नीरजहिन्दवाण: , संजयरावत: सचिन: आदय: आचार्या: सर्वेषां सुस्वागताभिनन्दनं विहितवन्त: । कण्वाश्रमस्य सुन्दरं दृश्यं गुरुकुलस्य वातावरणं च दृष्ट्वा दर्शका: अतीव प्रसन्ना: अभवन्।

तृतीयदिवसस्य अवसरे वैदिकगुरुकुलमहाविद्यालयस्य परमार्थवैदिकगुरुकुलकण्वाश्रमस्य च परिसरे विविधाः यौगिकशक्तिकार्यक्रमाः आयोजिताः अभवन्। यस्मिन् उत्तमयोगासनशक्तिषु गुरुकुलस्य अंकित:, योगिराज:, भार्गव: ,विष्णु:,अनिल:, कमलेश:, सूदन: स्वासनं प्रदर्शयन्त: अग्निज्वालावृत्तौ कूर्दनं कृतवन्त: । योगशक्तीनां विशेषप्रदर्शने भूतपूर्वसैनिक: देवेंद्र:, सौरभराणा , चादिभि: दन्तै: यानकर्षणं वक्षस्थले पाषाणत्रोटनं, यानस्थगितमपि प्रदर्शितम् । दर्शकानां कृते अयं प्रदर्शनं आकर्षणयुक्तम् आसीत्। कार्यक्रमं द्रष्टुं बहव: अभिभावका: दूरदूराद्दर्शका: समागता: आसन् । दर्शकै: सर्वेषाम् योगप्रदर्शकानाम् करताडनेन सोत्साहेन अभिनन्दनं कृतं ।

कार्यक्रमस्य समापनं कुर्वन् पूज्यस्वामीद्वारा कथितं यत् योगान्तर्गतं सर्वाधिका शक्ति: प्राणायामद्वारा वर्धते , यस्य प्रभावेण अत्र शक्तिप्रदर्शनकर्तार: दन्तै: यानकर्षणशक्तिं, वक्षस्थले पाषाणत्रोटनशक्तिं, यानस्थगनशक्तिं च अग्निगोले प्रविश्य कूर्दनशक्तिं प्रदर्शितवन्त: । अत: वयम् वेदानुसरणेन सह योगशक्तिम् अपि अर्जयाम: । आचार्य: मनमोहननौटियाल: अस्मिन्नवसरे प्रोक्तवान् यत् अस्माकं सौभाग्यं यत् गुरुकुले अध्ययनं कुर्वतां ऋषिकुमाराणाम् अद्भुतं प्रदर्शनं प्राप्तं । सहैव अरविन्दभट्ट: सधन्यवादं प्रकटयन् उक्तवान् यत् एतत् सर्वं योगाभ्यासेन सफलोभवत् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button