नवशिक्षानीति: विद्यार्थिषु सर्वांगीणविकासे सहयोगी “प्रो.अन्नपूर्णानौटियाल:”
(फरवरीमासस्य प्रशिक्षणकार्यक्रमः यूजीसीमालवीयमिशनशिक्षकप्रशिक्षणकेन्द्रस्य, हे.न.ब.गढ़वालविश्वविद्यालयश्रीनगरगढ़वालद्वारा आरब्ध: अनेकेभ्य: राज्येभ्यः शिक्षकाः प्रशिक्षणं गृह्णन्ति)
। श्रीनगरं। भारतसर्वकारेण कार्यान्वितायाः दूरदर्शीनवीनशिक्षानीतेः विविधपक्षेषु केन्द्रितः पञ्चदशदिवसीयः कार्यक्रमः उत्तराखण्डस्य श्रीनगरगढ़वालस्य हे.न.ब.गढ़वालविश्वविद्यालयस्य मालवीयमिशनशिक्षकप्रशिक्षणकेन्द्रेण १५ फरवरी २०२४ तः आरब्धः अस्ति। यस्मिन् उच्चशिक्षाक्षेत्रे सेवां कुर्वन्तः अनेकेभ्यः राज्येभ्यः शिक्षकप्रतिभागिनः प्रशिक्षणं गृह्णन्ति। अस्मिन् कार्यक्रमे उत्तराखण्ड:, उत्तरप्रदेश:, नवदिल्ली, राजस्थानं, महाराष्ट्र:, हरियाणा, बिहार:, कर्नाटक:, तमिलनाडु: इत्यादीनां राज्यानां शिक्षकाः भागं गृह्णन्ति।
अस्मिन् अवसरे विश्वविद्यालयस्य कुलपतिः प्राध्यापिका अन्नपूर्णा नौटियालः अवदत् यत् नूतना शिक्षानीतिः सर्वतोन्मुखीविकासे महत्त्वपूर्णा अस्ति। तया कथितं यत् अस्माकं विश्वविद्यालयस्य मालवीयमिशनशिक्षकप्रशिक्षण- केन्द्रेण आयोजिते अस्मिन् चतुर्थे कार्यक्रमे अनेकेभ्य: राज्येभ्यः शिक्षकाः बहुसंख्येन भागं गृह्णन्ति। तया अग्रे उक्तं यत् अस्माकं विश्वविद्यालयस्य मालवीयमिशनटीचरट्रेनिंगसेंटर ‘ एन ई पी 2020 ओरिएंटेशन एंड सेंसटाइजेशन ‘ इत्येतेषु केंद्रित: प्रशिक्षणकार्यक्रम: भारतसर्वकारस्य एकमहत्त्वाकांक्षी उपक्रम: आयोजितो वर्तते। अस्यान्तर्गतम् उच्चशिक्षाया: विविधविषयेषु निरन्तरम् अन्तर्जालीय-मोड्-मध्ये संचालनम् संजायते । अपि च, सर्वकारस्य अस्मिन् उपक्रमे देशस्य अनेकराज्येभ्यः प्रतिभागिनः गढ़वालविश्वविद्यालयस्य मालवीयकेन्द्रात् अन्तर्जालीयलाभं प्राप्नुवन्ति इति महती आनन्दस्य विषयः। तदर्थं सा केन्द्रस्य सम्पूर्णं आयोजनसमित्याः सर्वेभ्यः सहभागिभ्यः च शुभकामनाम् अयच्छत् ।
उल्लेखनीयं यत् मालवीयमिशनशिक्षकप्रशिक्षणकेन्द्रद्वारा यूजीसीद्वारा प्रशिक्षणकार्यक्रमाणाम् आयोजनं उच्चशिक्षणसंस्थासु कार्यं कुर्वतां शिक्षकाणां कृते नूतनशिक्षानीतेः सूक्ष्मतां अवगन्तुं भारतसर्वकारस्य महत्त्वाकांक्षी उपक्रमः अस्ति। अस्य अन्तर्गतं गढवालविश्वविद्यालयस्य मालवीयमिशनशिक्षकप्रशिक्षणकेन्द्रेण उच्चशिक्षायाः विभिन्नविषयेषु प्रशिक्षणकार्यक्रमाः अपि निरन्तररूपेण आयोजिताः सन्ति।