संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशउत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

नवसत्रस्य आचार्यसभा विद्यामन्दिरजानकीनगरे सम्पन्ना ।

प्रेषक।रोहितबलोदी।कोटद्वारं।विद्याभारती-अखिल-भारतीय-शैक्षणिक-संस्थानस्य तत्वावधाने कोटद्वारनगरे, विद्यामंदिरजानकीनगरस्य, विद्यामंदिर-उमरावनगरस्य, विद्यामन्दिरकालाबढ़स्य त्रिविद्यालय: सर्वशिक्षकाणां सामूहिकसभाया: आयोजनं रितेशशर्मासरस्वतीविद्यामंदिर-इण्टर-कॉलेज-जानकीनगरे अभवत्। सभाया: अस्या: उद्घाटनं उत्तराखंडप्रांतस्य विद्याभारत्या: संभागीयनिरीक्षक: नथिलालबंगवाल:, प्रधानाचार्य: कुंजबिहारीभट्ट:, प्रधानाचार्य: मनोजकुकरेती एवं च प्रदीपनौटियाल: मातृसरस्वत्या: समक्षे दीपं प्रज्ज्वाल्य पुष्पार्पणेन शुभारम्भं कृतवन्त: । तदनन्तरं नथिलालबंगवाल: सर्वाध्यापकैः सह विषयपरीक्षापरिणामविषये चर्चां कृतवान्। सः राष्ट्रियशिक्षानीतिः २०२३ इत्यस्य आधारेण नूतनसत्रे शिक्षकेभ्यः अध्यापनार्थं निर्देशान् दत्तवान्। परिषदीयपरीक्षायाः पूर्वछात्रान् सहकार्यं कर्तुं समुचितं मार्गदर्शनं च कर्तुं प्रेरितवान् तथा च विद्यालये छात्राणां संख्यां वर्धयितुं प्रयत्नाः कर्तुं मार्गदर्शिकाः अपि दत्ताः। शिक्षकाः विभागनिरीक्षकं विषयस्य अवगमनाय, उत्तमपरिणामस्य च आश्वासनं दत्तवन्तः। अस्मिन् अवसरे सर्वे शिक्षकाः प्रधानाध्यापकाः इत्यादयः उपस्थिताः आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button