संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशउत्तराखण्डलखनऊ

संस्कृतं संस्कारितगृहं ददाति – ‘डॉ. उमानाथतिवारी’

उत्तरप्रदेश: । उत्तरप्रदेशसंस्कृतसंस्थानद्वारा अन्तर्जालीयसंस्कृतभाषाकक्षाणाम् अन्तर्गतं आयोजितं बौद्धिकसत्रं रविवासरे समाप्तम्।
सत्रसंचालनं प्रशिक्षक: शशिकांतमहोदयः कृतवान् । सभासंचालनं प्रशिक्षकेन अंशुगुप्ताद्वारा विहितम्।
किशोरीराधेद्वारा प्रस्तुतया सरस्वतीवन्दनया सत्रप्रारम्भ: जातः। अथ संस्थानगीतिका *”श्रुतिसरभरविचारम्”* राधेमोहनयशिकाभ्यां प्रस्तुता। प्रशिक्षिक: दिवाकमणित्रिपाठी अतिथिपरिचयं संस्थानवृत्तकथनञ्च कृतवान् ।

अन्ये प्रशिक्षवः स्वमनमोहकप्रस्तुतिभिः सर्वान् मोहितवन्तः।
बौद्धिकसत्रे वक्तृरूपेण उपस्थितः देवरिया-नगरस्य हाटाप्रतापपुरमण्डलस्य श्रीकृष्ण-इण्टर-महाविद्यालयस्य प्राचार्यः डॉ. उमानाथतिवारी संस्कृतभाषायाः विशेषतां व्याख्याय संस्कृतभाषा संस्कारितगृहं प्रददाति इति उक्तवान् । संस्कृतभाषा ईश्वरस्य भाषा अस्ति । एतेन सह सद्यः निर्मितस्य भगवतः श्रीरामस्य भव्यमन्दिरस्य, रम्यरामायणीकथायाः संक्षिप्तसारांशं च प्रस्तुतवान्।

अनेन सहैव संस्थानस्य माननीयनिदेशक: विनयश्रीवास्तव: माननीया सर्वेक्षिका डॉ. चंद्रकला शाक्य:, समन्वयक: धीरजमैठाणी , दिव्यरंजन:, राधाशर्मा इत्येतैः अपि स्वविचाराः व्यक्तीकृता: । प्रशिक्षुभिः स्वेच्छया संस्कृतभाषायां गीतानि, प्रार्थना इत्यादीनि च प्रस्तूय संस्थानं प्रति संस्कृतं च प्रति रुचिः प्रकटिता। अन्ते प्रशिक्षकः नागेशदुबे बौद्धिकसत्रे उपस्थितवक्तृजनान्, प्रशिक्षकान्, प्रशिक्षून् प्रति च आभारं प्रकटितवान्।
प्रशिक्षक: लक्ष्मीनारायणराजपूतद्वारा शांतिमन्त्रेण सत्रसमाप्तिः कृता। कार्यक्रमेऽस्मिन् वीरेन्द्रशर्मा, सुब्बुलक्ष्मी:, देवव्रत:, अमिता, दक्षा, दिलीपसिंह: इत्यादयः सम्मिलिताः आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button