संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादूनसंस्कृत भारती

संस्कृतम् अस्माकं गौरवं—“पी.एस.दास:”

देहरादून। संस्कृतभारतीदेहरादूनेन दशदिवसीयं सरलसंस्कृतसंभाषणशिविरं समायोजितम् । शिविरेस्मिन् देहरादूनमहानगरे घोसीगलीपञ्चायतीमन्दिरे अतिथिरूपेण समागतः श्रीमान् पी. एस. दासः उक्तवान् यत् संस्कृतम् अस्माकं गौरवं । विशिष्टातिथिरूपेण उत्तराखण्डविद्वत्सभायाः अध्यक्षः आचार्य: विजेंद्रममगे उक्तवान् यत् संस्कृतभाषा अस्माकम् आध्यात्मिकतायाः संपोषिका, शास्त्राणां संरक्षिका, सामाजिकसौहार्दस्य च मार्गदर्शिका वर्तते अतः अवश्यं पठनीया। विभागसंयोजकः श्रीनागेद्रव्यासः उक्तवान् यत् अस्माभिर्निरंतरं दशदिवसं यावत् प्रतिदिनं शिविरम् आगत्य पठनीयम्। पुनः पठित्वा समाजे अन्येऽपि प्रेरणीयाः । सत्रस्य शुभारम्भः अतिथिभिः दीपप्रज्ज्वालनेन विहितम् । जनपदमंत्री डॉ. प्रदीपसेमवालः संस्कृतपरिचयेन शिवरम् आरब्धवान् , सः सा तत् , अत्र तत्र इत्यादीनां पाठ्यबिंदूनाम् अभ्यासं कारितवान्।
जनपदस्य शिक्षणप्रमुखः राजेशशर्मा गीताभ्यासं कृतवान् । मञ्चसञ्चालनं धीरजमैठाणी अकरोत् । अवसरेऽस्मिन् आचार्यः योगेशकुकरेती,
महानगरमन्त्री माधवपौडेलः महानगरमहिलाप्रमुखा डा . अनुमेहा वैद्या , महानगरछात्रप्रमुखा शिवानीरमोला, डोईवालाखण्डसंयोजक: डा. आनन्दमोहनजोशी , रायपुरखण्डसंयोजकः श्रीधीरजबिष्टः, उत्तराखण्डविद्वत्सभायाः उपाध्यक्षः सत्यप्रसादसेमवालः इत्येतैः सहिताः संस्कृताध्येतारः शिक्षार्थिनः समुपस्थिताः आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button