संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
Uncategorizedलखनऊ

मुख्यमन्त्रिणा कृतं प्रभोः श्रीरामस्य हनुमानगढ़ीमन्दिरे च दर्शनम्

• श्रीराममन्दिरनिर्माणस्य प्रगत्या अपि अभवत् अवगतः, सप्ततिः प्रतिशतं निर्माणकार्यं पूर्णं कृतम्

• षड्वर्षपूर्वं मार्चमासस्य नवदशदिनाङ्के एव योगिना आदित्यनाथेन स्वीकृता आसीत् मुख्यमन्त्रिणः दायित्वम्

• दिनद्वये योगिना आदित्यनाथेन काशीविश्वनाथस्य मर्यादपुरुषोत्तमश्रीरामस्य चरणयोः नमितः सिरः

लखनऊ। मुख्यमन्त्री योगी आदित्यनाथः रविवासरे प्रातः अयोध्यां प्राप्तवान् । अत्र सः प्रथमं हनुमानगढीमन्दिरं गत्वा पूजनं कृतवान् । सङ्कटमोचनहनुमतः दर्शनानन्तरं योगिना आदित्यनाथेन उत्तरप्रदेशः सुखी स्वस्थः च भवेत् इति कामना कृता । तदनन्तरं मुख्यमन्त्रिणा प्रभोः श्रीरामस्य दर्शनं, आरर्तिक्यं, परिक्रमा च कृता । मुख्यमन्त्रिणा राममन्दिरनिर्माणस्य प्रगतेः विषये अपि ज्ञातम् । षड्वर्षाणि पूर्वं अद्य मार्चमासस्य नवदशदिनाङ्के गोरक्षपीठाधीश्वरमहन्तयोगी आदित्यनाथः उत्तरप्रदेशस्य मुख्यमन्त्रिणः दायित्वं स्वीकृतवान् आसीत् । पूर्वम् अयोध्यां प्राप्य रामकथा हेलीपैड् इत्यत्र मुख्यमन्त्रिणे नमस्कारः कृतः।

“दिनद्वये काशीविश्वनाथस्य हनुमानगढ़ीमन्दिरस्य च दर्शन कृतवान्”

योगिनः आदित्यनाथस्य मुख्यमन्त्रीत्वस्य घोषणा 2017तमस्य वर्षस्य मार्चमासस्य अष्टादशतमे दिनाङ्के अभवत् । मार्चमासस्य नवदशतमे दिनाङ्के उत्तरप्रदेशस्य मुख्यमन्त्रीरूपेण शपथग्रहणं कृतवान् । संयोगः अस्ति यत् 2023तमस्य वर्षस्य मार्चमासस्य अष्टादशतमे दिनाङ्के गोरक्षपीठाधीश्वरेण मुख्यमन्त्रिणा च योगिना आदित्यनाथेन काशीनगरे बाबाविश्वनाथस्य मन्दिरं प्रणामं कृत्वा शतकं दर्शनं कृतम्, अपि च कालभैरवस्य द्वारे शिरं नत्वा प्रणामः कृतः । अपरपक्षे मार्चमासस्य नवदशदिनाङ्के अयोध्यायात्रायाः आरम्भः सङ्कटमोचनहनुमतः चरणयोः आराधना, पूजनं च कृतम् । बाबाविश्वनाथस्य श्रीराम-सङ्कटमोचनहनुमतः च आशीर्वादेन योगी आदित्यनाथः अपि दीर्घतमकालं यावत् उत्तरप्रदेशस्य मुख्यमन्त्रीत्वस्य अभिलेखं स्थापितवान् । रामलालादर्शनानन्तरं श्रीरामजन्मभूमितीर्थक्षेत्रस्य महासचिवेन चम्पतरायद्वारा मुख्यमन्त्रिणे योगीने आदित्यनाथाय स्मृतिचिन्हं प्रदत्तम् ।

“राममन्दिरनिर्माणकार्यस्य कृतं निरीक्षणम्”

प्रभोः श्रीरामस्य दर्शनानन्तरं मुख्यमन्त्री योगी आदित्यनाथः राममन्दिरस्य निर्माणस्य प्रगतिविषये ज्ञातवान् । अत्र चम्पतरायः मुख्यमन्त्रिणं निर्माणविषये सूचितवान् । योगी आदित्यनाथः अपि अत्र कार्यरतानाम् श्रमिकाणां कल्याणं पृष्टवान् । मुख्यमन्त्री अधिकारिभ्यः प्रचलति कार्यस्य प्रगतेः विषये अपि पृष्टवान् । महत्त्वपूर्णं यत् मन्दिरस्य सप्ततिः प्रतिशतं निर्माणं सम्पन्नम् अस्ति । निरीक्षणकाले स्थानीयजनप्रतिनिधिः अपि उपस्थिताः आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button