संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
कण्वनगरीकोटद्वारपौड़ी

डीएवीपब्लिकस्कूल इत्यस्मात् अक्षजनेगी, पौडीजनपदे संस्कृतगानप्रतियोगितायां तृतीयस्थानं प्राप्तवान्

सिद्धार्थनैथानी । कोटद्वार। उत्तराखण्ड-संस्कृत-अकादमी हरिद्वारम् छात्राणां च रुचिं जागृत्य संस्कृतस्य , प्रसारणं, प्रचारं, संरक्षणं स्वविकासं च हेतु, जिलास्तरीय-अन्तर्जालीयसंस्कृतगानप्रतियोगिता समायोजिता आसीत् । 2022-23सत्रस्य एकलमन्त्र:, सरस्वती वंदना (स्तोत्रं), संस्कृतगानं, सुभाषितं , गीताश्लोक: ऑनलाइन संस्कृतगीतगायनप्रतियोगितायां डी.ए.वी.पब्लिकस्कूलस्य बलभद्रपुरकण्वनगरीकोटद्वारस्य सप्तमवर्गस्य छात्रा अक्षजनेगी, अंशिका च श्रीमद्भगवद्गीतस्य भक्तियोग इति नाम्ना द्वादश-अध्यायस्य श्लोकानां पाठं कृत्वा ३ मिनिट् यावत् विडियो निर्मितवन्तौ । पौड़ीजिलात: गायनप्रतियोगिता 16 फरवरीं यावत् संयोजकाय श्री रोशनलालगौडवर्याय प्रेषिता प्रतियोगिता अमुखपटलम् (फेसबुक्) इत्यस्य विचारानुसारं निर्णायकमण्डलस्य निर्णयानुसारं अक्षजः १७ तः २४ दिवसपर्यन्तं पञ्चत्रिंशत् शतानि (३५००) दृश्यानि प्राप्य तृतीयस्थानं प्राप्तवान् । डीएवीपब्लिकस्कूल इत्यस्य कार्यवाहक: प्राचार्यः श्री नितिनभाटिया इत्यनेन अक्षजस्य अंशिकाया: च अभिनन्दनं कृत्वा उक्तं यत् अस्मिन् आधुनिकयुगे अस्माकं संस्कृते: धार्मिकग्रन्थानां च अध्ययनं सर्वथा आवश्यकम् अस्ति। मार्गदर्शकाध्यापकः सिद्धार्थनैथानी अपि अक्षजस्य अस्याः सफलतायाः अभिनन्दनं कृत्वा अवदत् यत् संस्कृतं सर्वभाषाणां जननी अस्ति तथा च “भारतस्य प्रतिष्ठा द्वे संस्कृतं संस्कृतिस्तथा” इति प्रतिष्ठायाः द्वौ महत्त्वपूर्णौ पक्षौ अस्याः संस्कृतिः संस्कृतभाषा च इति।हिन्दी प्राध्यापकः आशीषनैथानी इत्यनेन उक्तं यत् उत्तराखण्ड-संस्कृत-अकादमी इव अन्यसंस्थाः अपि संस्कृतभाषायाः प्रचारार्थं, संस्कृतभाषायाः प्रति छात्राणां जिज्ञासां जागृतुं च एतादृशीनां प्रतियोगितानां आयोजनं कुर्वन्तीति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button