संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशलखनऊ

नवम्बरमासीया संस्कृतभाषाशिक्षण-कक्षारब्धा

जिलागाजियाबादस्य संस्थानप्रशिक्षकेन शशिकांतमहोदयेन कक्षैषा संचाल्यते

वार्ताहर:-शशिकान्तः। नवम्बरमासे उत्तरप्रदेशसंस्कृतसंस्थालखनोद्वारा २०२३ संस्कृतभाषाशिक्षणकक्षासु जीवनस्य प्रत्येकं क्षेत्रं स्पृशन्तीं देववाणीं शिक्षितुं विद्यालयेषु विरामकाले सति मासेऽस्मिन् छात्रा अपि अतीव उत्सुकाः सन्ति । बीनया प्रारम्भे देववाणीगीतमनन्तरं अनुपमया संस्थानगीतिकानन्तरं कोकिलेन सरस्वतीवन्दना कृता । नूतनसत्रेऽस्मिन् संस्कृतभाषाशिक्षणकक्षायां संस्कृतसूक्ष्मताः ज्ञाताः छात्रैः। पत्रिकापठनार्थं, मित्रालापार्थं, बालजिज्ञासाशमनार्थं, परीक्षार्थं, सम्भाषणार्थञ्च पृथक् पृथक् उद्देश्यं सफलीकर्तुं छात्राः समागताः ।
उपक्रमोऽयं बहुमोदमानोऽस्ति।
आधुनिककाले संस्कृतभाषायाः उपयोगिता: उक्त्वा शास्त्रसंरक्षणे संस्कृतस्य मुख्यभूमिका प्रस्तावितासीत् । भाषाविज्ञानानुसारं संस्कृतस्य महत्त्वमुक्तम्। जिलागाजियाबादस्य संस्थानप्रशिक्षकेन शशिकांतमहोदयेन कक्षैषा संचाल्यते । द्वितीयस्तरस्य कक्षैषा सायं ०८:०० – ०९:०० वादनपर्यन्तं प्रचलति। शशिकांत: महोदय: छात्रान् वर्णमालाज्ञानं, संस्कृतस्य सूक्ष्मतां च पाठितवान्। कक्षायामुपस्थितेषु ज्योति:, नीतिः,राधा, रेखा, शिवः, उर्वी, बीना, अनुराधा, सन्तोष इत्यादिभिः छात्रैः स्वविचाराः प्रकटिताः। प्रतिभागिभ्यः धन्यवादं दत्त्वा प्रशिक्षणसंयोजकः श्री धीरजमैठाणी संस्थायाः योजनायाः विषये विस्तरेण उक्तवान् । सः अवदत् यत् प्रतिमासं २ तः ३ सहस्रं छात्राः संस्कृतभाषां शिक्षन्ते। एताः कक्षाः उत्तरप्रदेशसंस्कृतसंस्थानस्य निदेशकः विनयश्रीवास्तवः, प्रधानपदाधिकारी डॉ. दिनेशमिश्रः, सर्वेक्षिका डॉ. चन्द्रकला शाक्यः, प्रशिक्षणप्रमुखः सुधिष्ठमिश्रः, कक्षानिरीक्षणं समन्वयक: दिव्यरंजनः राधा शर्मा च कृतवन्तः।अन्तर्जालमाध्यमद्वारा संचालितकक्षायामन्ते कक्षान्ते प्रतिदिनं प्रतिभाप्रदर्शनमपि भवति च । अत्र ५० छात्रैः सह, संस्थायाः पदाधिकारिणः,दामिनी शर्मा, श्वेता तिवारी , रेणु इत्यादयः उपस्थिताः आसन्।
एतासु कक्षासु अन्ते परीक्षा अपि भविष्यति । उत्तीर्णवद्भ्यः प्रमाणपत्राणाम् वितरणस्य व्यवस्थापि अस्ति ।
एतावता बहवः उपकृताः। विशेषतः ये विद्यालयादिषु TGT/PGT इत्यनयोः कृते सज्जतां कुर्वन्ति, तेऽप्यत्र पठितुमागच्छन्ति । एतया योजनया अग्रेऽपि उपकृताः भविष्यन्ति एव । ये एतां निःशुल्क- कक्षामागन्तुकामाः ते जनाः
“sanskritsambhashan.com” इति लिंक उद्घाट्य तत्र स्वानुकूलतया दिसम्बरजनवरीमासयो: समयं चित्वा स्वस्य नामांकनं कारयितुं शक्नुवन्ति । ये प्रथमस्तरं पठितवन्तः विशेषतः तेभ्यः अन्येभ्यश्च द्वितीयस्तरस्य प्रशिक्षणमपि संस्थानेन दीयते। परीक्षायाम् ३३% उत्तीर्णवद्भ्यः शिक्षार्थिभ्यः ७५% उपस्थितेभ्यः प्रशिक्षुभ्यः प्रमाणपत्राणि अपि दूरवाणीसन्देशमाध्यमेन प्रेषणव्यवस्था अस्ति। मासे अस्मिन् द्विपञ्चाशत् कक्षा: प्रचलन्ति यासु प्रायः चतुस्सहस्रं छात्राः संस्कृतज्ञानाय आगच्छन्ति । संस्थानद्वारा अधुना ‘गृहे-गृहे संस्कृतम्’ इत्यनया योजनयापि प्रचार: भवति ।
निःशुल्कनामांकन कर्तुमिच्छन्ति तेभ्यः नामांकनलिंक “https://sanskritsambhashan.com / seco nd_level_reg.php” इत्यस्ति ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button