संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारमनोरंजनलाइफस्टाइल

“स्वास्थ्यं जीवनस्य आधार:” — प्रो.विजयकुमार: अग्रवालः

जी-२० इत्यन्तर्गतं राजकीयमहाविद्यालये कण्वघाटीकोटद्वारे भाषणप्रतियोगिता अभवत्

• द्वितीयवर्षस्नातिका प्रियंका प्रथमस्थानं प्राप्तवती।

कोटद्वार। शुक्रवासरे राजकीयमहाविद्यालये कण्घाटीकोटद्वारे जी-२० कार्यक्रमस्य अन्तर्गतं “भारते स्वास्थ्यसुविधाः, चुनौतीः, अवसराः च” इत्यनेन शीर्षकेण भाषणप्रतियोगितायाः आयोजनं सञ्जातं। कार्यक्रमे महाविद्यालयस्य प्राचार्यः प्रो.विजयकुमार: अग्रवालः स्वास्थ्यं जीवनस्य आधारः इति वर्णयित्वा स्वास्थ्यस्य मूलभूतविषयान् छात्रैः सह संयुक्तं कृतवान्। प्रतियोगितायां कला-वाणिज्य-विज्ञानसंकायस्य छात्राः भागं गृहीतवन्तः, यस्यां प्रियंका बी.ए.द्वितीयवर्षस्य प्रथमस्थानं, रियाचौधरी बी.एससी.द्वितीयवर्षस्य द्वितीयस्थानं, सुनैना जोशी बी.एससी.तृतीयवर्षस्य तृतीयस्थानं प्राप्तवत्य:। निर्णायकमण्डले डॉ. भोलानाथ:, डॉ. गीतारावतशाह:, श्री गिरीशचन्द्रा च आसन्।

कार्यक्रमस्य संचालनं डॉ. अनुरागशर्मा इत्यनेन कृतम्। तेन ई-रक्तकोश एप् तथा हेल्थ आईडी आयुषमान कार्ड इत्यतेषु विषयेषु सूचना अपि प्रदत्ता। डॉ.कपिलः मद्यपानं धूम्रपानं च न कृत्वा स्वस्थजीवनं स्वीकुर्वन्तु इति आग्रहं कृतवान्। कार्यक्रमे अरविन्दसिंहः, डॉ.भोलानाथः,प्रो.अशोककुमारमित्तलः,डॉ.गीता रावतशाह:, डॉ. इन्दुमलिक:, डॉ. संदीपकुमार:, डॉ. कुमारगौरवजैन:, डॉ. कपिल:, डॉ. विनयदेवलाल:, डॉ. अनुराग: शर्मा, डॉ. उषा सिंह:, श्री सतकुमार:, श्री गिरीशचंद:, सुश्री मनीषा सरवालिया, श्रीमती गीता, श्री मनवेन्द्रसिंह:, श्री आशीषकुमार:, श्री किशोरकुमार:, श्रीमती प्रेरणा आशुतोष: रावत: , सुमननेगी, जितेन्द्र:, अजयरावत:, संजय कण्डारी, पवनकुमार:, सनीनेगी, रोहन:, रविन्द्र: , श्रीमती रानी, ​​छात्राः च उपस्थिताः आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button