संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादून

राजभवने अभवत् महाराष्ट्र-गुजरात-राज्य-स्थापन-दिवसकार्यक्रमः

• भारतस्य इतिहासस्वरूपनिर्माणे सांस्कृतिकसमृद्धौ च द्वयो: महत्त्वपूर्णा भूमिका - "माननीय: राज्यपालवर्य: लेफ्टिनेंटजनरलगुरमीतसिंह:"

उत्तराखण्ड। महाराष्ट्र-गुजरात-राज्य-स्थापन-दिवसस्य अवसरे सोमवासरे राजभवने एकः कार्यक्रमः आयोजितः। कार्यक्रमे उत्तराखण्डे कार्यरतै: महाराष्ट्रत: एवं गुजरातत: मूलाधिकारी एवं महाराष्ट्रसमाजकार्यकारिणीसमिते:, गुजरातीसमाजसमिते: एवं हरिद्वारगुज्जूपरिवारसमिते: सदस्यसहितेन तेषा परिवारसदस्यै: अपि प्रतिभाग कृत: । अस्मिन् अवसरे द्वयोः राज्ययोः समृद्धपरम्परायाम्, लोकसंस्कृतेः च आधारेण एकः सुन्दरतम: सांस्कृतिकः कार्यक्रमः प्रस्तुतोभवत् । एतेषु प्रस्तुतिषु उभयोः राज्ययोः गौरवपूर्णसांस्कृतिकविरासतां दर्शनं दृश्यते स्म ।
कार्यक्रमम् उपस्थाय राज्यपालेन लेफ्टिनेंटजनरलगुरमीतसिंहवर्येण स्थापनादिवसस्य अवसरे उपस्थितेभ्य: उभयराज्यनिवासिभ्य: वर्धापनानि शुभकामना: च प्रदत्ता:। सः अवदत् यत् अद्य भारतस्य इतिहासस्य स्वरूपनिर्माणे महत्त्वपूर्णां भूमिकां निर्वहन्तयोः जीवन्तयोः सांस्कृतिकसमृद्धयोः राज्ययोः आधारशिलास्थापनस्य दिवसः अस्ति। गुजरातदेशः समृद्धसंस्कृतेः, धरोहरस्य, परम्परायाः च कृते प्रसिद्धः अस्ति, यत्र राष्ट्रपितुः महात्मागान्धी इत्यस्य जन्मभूमिः अपि अस्ति । महाराष्ट्रे च भारतस्य वित्तीयराजधानी मुम्बई-नगरम् अस्ति । अत्र छत्रपतिशिवाजीसहिताः अनेकानि आख्यानानि जन्म प्राप्नुवन् । राज्यपालः अवदत् यत् वयं सर्वे उभयोः राज्ययोः स्थापनादिवसम् आचरन्तः स्मः इति प्रशंसनीयः प्रयासः अस्ति। सः अवदत् यत् नानात्वेऽपि एकता वर्तते इति भारतस्य विशेषता। एतादृशाः कार्यक्रमाः राष्ट्रियैकतायाः कृते अतीव महत्त्वपूर्णाः सन्ति।
अस्मिन् अवसरे राज्यपालस्य सचिवः श्री रविनाथरमणः राजभवने उपस्थितयोः राज्यस्य निवासिनः स्वागतं कृत्वा स्थापनादिवसस्य अभिनन्दनम् अकरोत्। सः अवदत् यत् सर्वेषु राज्येषु अन्यराज्यानां स्थापनादिवसम् आयोजयितुं केन्द्रीयगृहसचिवात् निर्देशाः प्राप्ताः, येषां दृष्ट्या अद्य राजभवने एषः कार्यक्रमः आयोजितः। उभयोः राज्ययोः आगन्तुकानां सर्वेषां धन्यवादं कृतवान् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button