संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डहरिद्वार

संस्कृताकादम्या: षड्विधा: संस्कृतप्रतियोगिता: हरिद्वारे 07-08 नवम्बर 2023 दिनाङ्के

छात्राणां प्रतिभागार्थम् अकादम्या: व्यापकव्यवस्था ।। ✓✓द्विदिवसीया: राज्यस्तरीयसंस्कृतछात्रप्रतियोगिता: महाजनभवने समायोज्यन्ते ।। ✓✓ अत्र १३जिलासंयोजकाः, १३सहसंयोजका:, एवं च त्रयोदशजनपदस्य सहस्रश: छात्रा: कुर्वन्ति प्रतिभागं ।। ✓✓ संस्कृतोत्थानाय अस्मिन्नवसरे अकादमीसचिव: श्रीशिवप्रसादखाली , राज्यसंयोजक: डा.हरीशगुरुरानी, श्रीकिशोरीलालरतूडी प्रतियोगितायां विधास्यन्ति महत्त्वपूर्णभूमिकां।।

हरिद्वारम्।उत्तराखण्ड-संस्कृत-अकादमीद्वारा राज्ये द्वितीयराजभाषाया: संस्कृतप्रचारार्थं, प्रसारार्थं, रक्षणार्थं च छात्राणां संस्कृतेन सर्वतोन्मुखीविकासाय च विद्यालयस्य महाविद्यालयस्य, विश्वविद्यालयस्य च खण्डस्तरस्य, जिलास्तरस्य, राज्यस्तरस्य च सर्वेषां छात्राणां कनिष्ठ-वरिष्ठवर्गेषु षड्विधाः संस्कृत-छात्र-प्रतियोगिताः आयोजिताः । येषु
संस्कृतनाटकप्रतियोगिता संस्कृतसमूहनृत्यप्रतियोगिता
संस्कृतसमूहगायनप्रतियोगिता, संस्कृतवादविवादप्रतियोगिता, संस्कृतवाक्पटुताप्रतियोगिता, श्लोकोच्चारणप्रतियोगिता षड्विधा: सन्ति। राज्यस्तरीयसंस्कृतछात्रप्रतियोगितानाम् आयोजनं महाजनभवने हरिद्वारे संजायते।

कनिष्ठ-वरिष्ठ-वर्गे प्रखण्ड-स्तर-जिला-स्तराणां प्रतियोगिता: आयोजिता: अभवन् । एतासु प्रतियोगितासु प्रत्येकस्य खण्डस्य सर्वकारी/असर्वकारी/निजीमान्यताप्राप्तविद्यालयस्य, महाविद्यालयस्य विश्वविद्यालयस्य च कनिष्ठवर्गे 06 तः 10 पर्यन्तं वरिष्ठवर्गे कक्षा 11 तः स्नातकोत्तर (आचार्य/एम.ए.) संस्थागतछात्राः प्रतिभागं कृतवन्त:।

अवसरेस्मिन् अकादम्या: राज्यस्तरीयसंस्कृतच्छात्र- प्रतियोगितासु कुलदीपमैन्दोला अपि प्रथमवारं मञ्चसञ्चालनाय समामन्त्रितोस्ति । स: मञ्चसञ्चालनरूपेण आशुभाषणे कनिष्ठवर्गे एवं च मञ्चसमन्वयकरूपेण समूहगाने वरिष्ठवर्गे स्वदायित्वनिर्वणं करिष्यति। अकादम्या: प्रतियोगितासु कुलदीपमैन्दोला रोशनबलूनी चान्ये अकादम्या: दायित्ववन्त: जना: सञ्चालयिष्यन्ति कार्यक्रमं।

संस्कृताकादम्या: षड्विधा: संस्कृतप्रतियोगिता: हरिद्वारे
07-08 नवम्बर 2023 दिनाङ्के भूपतवालाक्षेत्रे महाजनभवने समायोज्यते । छात्राणां प्रतिभागार्थम् अकादमीद्वारा आवासनिवासादिव्यापकव्यवस्था कृता। अत्र १३जिलासंयोजकाः, १३सहसंयोजका:, एवं च त्रयोदशजनपदस्य सहस्रश: छात्रा: कुर्वन्ति प्रतिभागं ।
संस्कृतोत्थानाय अस्मिन्नवसरे अकादमीसचिव: श्रीशिवप्रसादखाली , राज्यसंयोजक: डा.हरीशगुरुरानी, श्रीकिशोरीलालरतूडी प्रतियोगितायां महत्त्वपूर्णभूमिकां विधास्यन्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button