संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशउत्तराखण्डहरिद्वार

सन्ततिभ्य: आधुनिकशिक्षया सह संस्कृतमयवातावरणं दातव्यं—–“मुख्यातिथि: गंगाप्रसादपन्त:”

🔵 उत्तराखण्डसंस्कृत-अकादमीद्वारा अभवत् भव्य: छात्रप्रतिभासम्मानसमारोह: । 🔵 सर्वाधिकप्राप्ताङ्केषु संस्कृतच्छात्रा: हरिद्वारे अकादम्या: परिसरे अभवन् सम्मानिता: । 🔵 प्रथमपुरस्कार: 5000 ₹, द्वितीयपुरस्कार: 4000 ₹ तृतीयपुरस्कार: 3000₹ आहत्य 38 संस्कृतछात्रेभ्य: 1,53,000 प्रत्यक्षधनराशिपुरस्कार: एवं प्रमाणपत्रम् अकादम्या प्रदत्तम्। 🔵 अकादम्या: व्यापकसंस्कृतप्रचारेण खण्डत: राज्यपर्यन्तं 50000 संस्कृतप्रतिभागिन: भवन्ति लाभान्विता: ।

🔵।हरिद्वारं। उत्तराखण्डसंस्कृत-अकादमीद्वारा द्वितीयराजभाषाया: संस्कृतस्य संरक्षणाय, प्रचाराय, प्रसाराय च शुक्रवासरे अकादमीपरिसरे संस्कृतछात्रप्रतिभासम्मानकार्यक्रमः आयोजितः। कार्यक्रमस्य आरम्भः दीपप्रज्वलनेन, अतिथिभिः सरस्वतीपूजनेन च अभवत् । अकादम्याः सचिवेन वित्तपदाधिकारिणा च अतिथिनां स्वागतं कृतम्। परिचयसम्बोधनं कुर्वन् अकादमीसचिवः शिवप्रसादखाली इत्यनेन उक्तं यत् संस्कृत-अकादमी द्वितीयराजभाषायाः संस्कृतस्य संरक्षणार्थं बहुवर्षेभ्य: अनेककार्यक्रमान् आयोजयति। संस्कृतछात्रप्रतियोगितानां माध्यमेन राज्यात् पञ्चाशत्सहस्राधिकाः छात्राः षड्विधप्रतियोगितासु भागं गृह्णन्ति । अपि च खण्ड-जिल्ला-राज्य-स्तरयोः अधिकाः छात्राः अपि भागं गृहीतवन्तः। युवाकविसम्मेलनं, ज्योतिषसम्मेलनं, संस्कृतमहोत्सवः, गीताजयन्तीमहोत्सवः इत्यादिभिः कार्यक्रमैः देशस्य विभिन्नराज्येभ्यः संस्कृतप्रेमिभ्यः छात्रेभ्यः च संस्कृतभाषायाः वैज्ञानिकं, आध्यात्मिकं धार्मिकं च महत्त्वं व्याख्यातुं निरन्तरप्रयत्नाः क्रियन्ते। संस्कृतभाषासम्बद्धेषु ग्रन्थेषु, काव्येषु, पौराणिकपाण्डुलिपिषु च शोधविदुषां मध्ये रुचिं जनयितुं उद्देश्यं कृत्वा शोधविद्वद्भ्यः शोधकार्यक्रमद्वारा शीघ्रमेव विद्वता प्रदत्ता भविष्यति।

संस्कृतविश्वविद्यालयस्य कुलसचिव: कार्यक्रमाध्यक्षः गिरीशकुमार: अवस्थी अवदत् यत् अनुसन्धानद्वारा संस्कृतभाषायां निहितं तथ्यं संस्कृतविदुषां साहाय्येन सरलतया सुलभतया च सामान्यजनस्य समक्षं प्रस्तुतीकरणस्य दिशि अपि कार्यं कर्तुं शक्यते। कार्यक्रमस्य मुख्यातिथिः उत्तराखण्डसर्वकारस्य योजनायोगस्य तकनीकीविशेषज्ञः गंगाप्रसादपन्तः अवदत् यत् परिवारं मानवस्य प्रथमशिक्षायाः केन्द्रं मन्यमानः प्रत्येकं पितरौ स्वसन्ततिभ्यः आधुनिकशिक्षया सह संस्कृतं वातावरणं प्रदातुं आग्रहं कृतवान्। राष्ट्रीयस्वयंसेवकसंघस्य पूर्वजिलासंघनिदेशक: रोहिताश्वकुंवर: पूर्वमहर्षिणाम् आहारस्य, व्यवहारस्य एवं आचरणस्य अनुकरणाय च वैज्ञानिकरूपेण जीवनंकलां प्रकाशितवान्
अकादम्याः वित्तपदाधिकारी सत्येन्द्रप्रसादडबरालः कार्यक्रमस्य अतिथिभ्यः, अभिभावकेभ्यः, आगन्तुकेभ्यः च आभारं प्रकटयन् छात्राणां सर्वाङ्गीणविकासे अभिभावकानां शिक्षकानां च महत्त्वपूर्णा भूमिका अस्ति इति उक्तवान्। शिक्षकाणां अभिभावकानां च मध्ये परस्परसञ्चारद्वारा छात्राणां बौद्धिकस्तरस्य, दक्षतायाः भविष्यस्य कृते च दृढं आधारं निर्मातुं शक्यते।

पूर्वमध्यमावर्गे उत्तराखण्डसंस्कृतशिक्षापरिषदः हरिद्वारतः सुबोधव्यासः अभिषेकममगाईं जयपपनै च उत्तरमध्यमावर्गे लोकेशचन्द्र: सुधेशबडोनी अजयकैन्थोला च क्रमशः प्रथमद्वितीयतृतीयपुरस्कारं प्राप्तवन्तः। तनुजजोशी, शौर्य:, रोहितपाण्डेय: च स्नेहापंवार:, हिमानी, पूजा नौटियाल: क्रमशः प्रथमद्वितीयतृतीयपुरस्कारं प्राप्तवन्त:। उत्तराखण्डविद्यालयशिक्षापरिषद्-नैनीतालत: उच्चविद्यालये कक्षायां क्रमशः प्रथमद्वितीयतृतीयपुरस्कारं प्राप्तवन्त: गगनदीप:, अभिषेक:, आजादश्च एवं गुरुकुलकांगडीविश्वविद्यालयहरिद्वारत: क्रमश: सुप्रभा, दिनेशचन्द्र:, प्रीति: प्रथमद्वितीयतृतीयपुरस्कारं प्राप्तवन्त: । उत्तराखण्डसंस्कृतविश्वविद्यालयात् शास्त्रीवर्गे सन्नी, देवव्रत:, हिमांशु: तथा आचार्यवर्गे अनिता भोई, भरतकुमार:, प्रतिज्ञा चौहान: क्रमशः प्रथमद्वितीयतृतीयपुरस्कारं प्राप्तवन्त:। राष्ट्रीयसंस्कृतसंस्थानस्य, श्रीरघुनाथकीर्तिपरिसरदेवप्रयागत:, मोहित:, मन्दीप:, श्रुतिशर्मा च स्नातकोत्तरे आचार्यवर्गे क्रमशः प्रथमद्वितीयतृतीयपुरस्कारं प्राप्तवन्त: देवसंस्कृतविश्वविद्यालयहरिद्वारतः स्नातके रामदेवी ढकडः, हर्षशर्मा, टिङ्कुकुमारः, च स्नातकोत्तरे तनुश्री पाठक:, प्रनीता तोमर: क्रमशः प्रथमद्वितीयतृतीयपुरस्कारन प्राप्तवन्त:। हेमवतीनंदनबहुगुणागढ़वालविश्वविद्यालयश्रीनगरत: स्नातकोत्तरे क्रमशः प्रथमद्वितीयतृतीयपुरस्कारश्च स्नातके सतेश्वरी, देवेन्द्रकुमार:, निशांतकुमार: प्राप्तवन्त: ।

कार्यक्रमस्य सञ्चालनं अकादम्या: शोधाधिकारी डॉ. हरिशचन्द्रगुरुरानी कृतवान् । अवसरेस्मिन् अकादम्या: पुस्तकालयसहायक:, कार्यक्रमसमन्वयक: रामकठैत:, प्रकाशनाधिकारी किशोरीलालरतूडी, प्रशासनिकाधिकारी लीला रावत:, डॉ. वाजश्रवा आर्य:, डॉ. नवीनपंत:, डॉ. जनार्दनकैरवाण:, भैरवपंतोला, दिव्या, आकांक्षा, मोहित:, अश्विनी, कविता, ओमप्रकाशभट्ट:, संतोष:, विवेकपंचभैया, वेवीत्रिपाठी, प्रीतम:, पंकज:, सुंदर: आदय: सम्मानितकार्यक्रमे आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button