आत्मानम् अलङ्करणीयं न तु शरीरम्
![](https://sanskritsamachar.com/wp-content/uploads/2023/11/IMG-20231121-WA0149.jpg)
पुनीत: आर्य:(कैलावडा कलां मुजफ्फरनगरम्) ।
एकः नृपः आसीत्। सः धनिकः आसीत्। एकदा तेन कुतश्चित् एकः शुकः आनीतः। तस्मै शुकाय पञ्जरं निर्मातुं सः नृपः स्वमन्त्रीम् आज्ञापितवान् अवदत् च – यत्किमपि धनम् आवश्यकं तत् राजकोषात् स्वीकरोतु शुकस्य कृते सुन्दरं पञ्जरम् आनयतु च ।
परद्यत्वे मन्त्री लौहपञ्जरम् आनीतवान् तस्मिञ्च पञ्जरे तं शुकं संस्थाप्य राज्ञः पुरतः प्रस्तुतवान्। राजा उक्तवान् – यत् एतत् पञ्जरं स्वीकृत्य मुख्यभवने संस्थाप्य साक्षात् मां मिलतु इति।
तदनन्तरं नृपः उक्तवान् यत् पञ्जरं तु सम्यक् नास्ति , त्वया इदानीमेव गत्वा उत्तमं पञ्जरम् आनेतव्यं संस्थापयितव्यं च।
दिनद्वयानन्तरं मन्त्री रजतनिर्मितं पञ्जरम् आनीतवान् ।
रजतनिर्मितपञ्जरं दृष्ट्वा – गच्छ त्वं इतोSपि च सुन्दरं पञ्जरम् आनयतु इति राजा अवदत् ।
अस्मिन् अवसरे मन्त्री सुवर्णपञ्जरं निर्मीय आनीतवान् परञ्च अस्य निर्माणे पञ्चदिनानि व्यतीतानि। किन्तु तमपि दृष्ट्वा राजा पुनः अवदत् यत् अस्माकं राजकोषे बहु धनं वर्तते, यावत् धनम् आवश्यकं तावत् स्वीकरोतु इतोSपि रम्यं सुन्दरं च पञ्जरमानयतु।
अस्मिनवसरे मन्त्री बहुमूल्यरत्नखचितं पञ्जरमानयत् पुनश्च तस्य निर्माणे दशदिनानि व्यतीतानि।
नृपाय तत् पञ्जरं बहु अरोचत्। नृपः मन्त्री च तत् पञ्जरं नीत्वा तस्मिन् भवने गतवन्तौ यस्मिन् भवने सः शुकः लौहपञ्जरे आसीत् ।
तत्र प्राप्य तं शुकं दृष्ट्वा तौ चकितौ जातौ, यतोहि सः मृतः जातः।
यतोहि पञ्जरस्य निर्माणे पञ्चदशाधिकानि दिनानि जातानि। अनेन कारणेन बाह्यपञ्जरस्य निर्माणप्रक्रियायां शुकस्य अन्नजलयो: विषये केनापि किमपि ध्यानं न प्रदत्तम्। एतदर्थम् अन्तः उपविष्टः शुकः मृतः जातः।
मनुष्याणामपि स्वभावः तादृशः एव । जनाः बाह्यशरीरस्य शोभनार्थम् एतावत: धनस्य आभूषणस्य च व्ययं कुर्वन्ति , परञ्च अन्तः उपविष्टम् आत्मानं कदापि न अवलोकयन्ति।
अतैव जनानां मध्ये मानवता न्यूनीभवति चेतना च म्रियते। दुःखानि कष्टानि च वर्धन्ते।
अतः *आत्मानम् अलङ्करणीयं न तु शरीरम्* इति ।