संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डहरिद्वार
Trending

संस्कृतभाषा आत्मनः भाषा जीवनस्य च सारः-सचिव:शिवप्रसादखाली

।।कार्यक्रमस्य मुख्यसंयोजकः अकादमीसचिवः श्री शिवप्रसादखाली इत्यनेन उक्तं यत् एतादृशसम्मेलनानि यूनां कृते संस्कृतसाहित्ये निहितानाम् गूढतत्त्वानां आत्मसातीकरणस्य अवसरं प्रददति। संस्कृतसाहित्यं समाजस्य दर्पणं यत् अस्मान् स्वदेशीयसंस्कृतेः, सभ्यतायाः, कर्तव्यस्य च ज्ञानं ददाति।।

• उत्तराखण्डसंस्कृत-अकादमीद्वारा आयोजितं द्विदिवसीयं अखिलभारतीयसंस्कृतशोधसम्मेलनम्

• देशस्य १२ राज्येभ्यः प्रायः ८० शोधविद्वांसः कार्यक्रमे भागं गृहीतवन्तः

हरिद्वार । उत्तराखण्डसंस्कृत-अकादमीद्वारा आयोजितस्य द्विदिवसीयस्य अखिलभारतीयसंशोधनसम्मेलनस्य आयोजनं अतिथिभिः दीपप्रज्वालनं कृत्वा सरस्वतीदेव्याः कृते पुष्पप्रदानेन अभवत्।
अतिथिभ्यः अकादमीसचिवेन पुष्पमाला:, वस्त्राणि च प्रदत्तानि। अवधूतश्रीनित्यानंदवेदविद्यालयत:, शांतिमंदिरकनखलवैदिकवटुकद्वारा वैदिकाह्वानं सञ्जातं। सरस्वती वन्दना श्री भगवानदास-आदर्शसंस्कृतमहाविद्यालयस्य छात्रै: प्रस्तुतं । देशस्य १२ राज्येभ्यः प्रायः ८० शोधविद्वांसः अस्मिन् कार्यक्रमे भागं गृहीतवन्तः । यत्र मुख्यरूपेण हिमाचलप्रदेशत:, राजस्थानत:, उड़ियात:, पश्चिमबंगालत:, मध्यप्रदेशत:, असमत:, आंध्रप्रदेशत:, महाराष्ट्रत:, उत्तरप्रदेशत: आदिभ्य: राज्येभ्य: प्रतिभागिभि: भागं विहितं।

कार्यक्रमस्य मुख्यसंयोजकः अकादमीसचिवः श्री शिवप्रसादखाली इत्यनेन उक्तं यत् एतादृशसम्मेलनानि यूनां कृते संस्कृतसाहित्ये निहितानाम् गूढतत्त्वानां आत्मसातीकरणस्य अवसरं प्रददति। संस्कृतसाहित्यं समाजस्य दर्पणं यत् अस्मान् स्वदेशीयसंस्कृतेः, सभ्यतायाः, कर्तव्यस्य च ज्ञानं ददाति।

*संस्कृतभाषा समर्पणभाषा अस्ति या जगत् एकस्मिन् सूत्रे बध्नाति-*प्रो. राधेश्यामचतुर्वेदी”*

कार्यक्रमस्य अध्यक्षतां कुर्वन् देवसंस्कृतविश्वविद्यालयस्य संस्कृतविभागस्य पूर्वप्रमुखः प्रो. राधेश्यामचतुर्वेदी उक्तवान् यत् संस्कृतभाषा समर्पणभाषा अस्ति या जगत् एकस्मिन् सूत्रे बध्नाति। गुरु-शिष्य-परम्परा भारतीय-संस्कृतेः अभिन्न-अङ्गम् अस्ति। संस्कृत-साहित्ये निहितस्य नष्ट-साहित्यस्य, धर्मशास्त्रस्य, पुस्तकानां च संकलनं प्रकाशनं च गुरु-शिष्याणां अथक-प्रयत्नेन एव सम्भवति। सम्प्रति शोधकर्तृणां ध्यानं आकर्षयितुं आवश्यकता वर्तते ।

*विश्वस्य प्राचीनतमभाषासु संस्कृतभाषायाः महत्त्वपूर्णं स्थानम् अस्ति-“कुलपति: प्रो. दिनेशचन्द्रशास्त्री”*

कार्यक्रमे मुख्यातिथि: उत्तराखण्डसंस्कृत-विश्वविद्यालय-हरिद्वारस्य कुलपति: प्रो. दिनेशचन्द्रशास्त्री उक्तवान् यत् विश्वस्य प्राचीनतमभाषासु संस्कृतभाषायाः महत्त्वपूर्णं स्थानम् अस्ति। अद्य प्राचीनज्ञान-विज्ञानस्य अन्वेषणस्य अत्यन्तं आवश्यकता वर्तते, येन प्राचीनसाहित्ये निहितं ज्ञानविज्ञानं नूतनरूपेण प्रस्तुतं कर्तुं शक्यते। शोधसम्मेलनानां महत्त्वं व्याख्याय उत्तराखण्डसंस्कृतविश्वविद्यालयस्य व्याकरणविभागस्य प्राध्यापकः डॉ. शैलेशतिवारी अवदत् यत् युवानः संस्कृतभाषायां नूतनसंशोधनलेखन-अन्वेषण-संकलनद्वारा स्वस्य प्राचीनसाहित्यस्य परिचयं प्राप्नुवन्ति।

अस्मिन् अवसरे अकादम्याः वित्तपदाधिकारी श्री एस.पी. डबराल: अपि सम्मेलने शोभायमानोभवत् । स्वशोधपत्रप्रस्तुतिश्च आचार्यरोशनगौड: सत्रारम्भमपि ऊढवान्। मंचसंचालनं कार्यक्रमसंयोजक: डॉ. हरिशचन्द्रगुरुरानी शोधाधिकारी कृतवान् । अकादम्या: प्रकाशनाधिकारी श्री किशोरी लालरतूडी, प्रशासनिकाधिकारी श्रीमती लीला रावत:, सहायिका पुस्तकालयाध्यक्षा श्रीमती रमा कठैत, डॉ. नैनिहालगौतम:, डॉ. चिरंजीवि:, डॉ. रत्नाकर:, डॉ. नवीनपन्त:, डॉ. कैलाशचन्द्र:, डॉ. विनय:, डॉ. रूपा वाउरी, डॉ. सतेन्द्रनाथ: दिव्या, आकांक्षा, बेवीत्रिपाठी, कविताशर्मा, विवेकपंचभैया, मोहित:, पंकज:, सुशीलमैठाणी, अजयजोशी, ओमप्रकाश:, सन्तोष:, अश्विनी आदय: उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button