संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
देशमनोरंजनराजनीतिलाइफस्टाइल

श्रीरामजन्मभूमिमन्दिरस्य प्रैष्यमुद्राङ्कनं प्राख्यापितम्।

प्रधानमन्त्री श्रीनरेन्द्रमोदी नव दिल्ल्यां श्रीराम-जन्मभूमि-मन्दिरस्य स्मारक डाक टिकट इति प्रैष्य-मुद्राङ्कनं प्राख्यापयत्। प्रैष्य-मुद्राङ्कनेन साकं प्रधानमन्त्रिणा विश्वस्मिन्नपि विश्वे भगवत: श्रीरामस्य उपरि प्रख्यापितानां प्रैष्य-मुद्राङ्कनानां पुस्तकमेकमपि लोकार्पितम्। अष्टचत्वारिंशत्पृष्ठात्मके पुस्तकेSस्मिन्
संयुक्त-राष्ट्रमञ्च-अमेरिका-न्यूजीलैंड-सिंगापुर-कनाडा-सन्निभानां विंशत्यधिकानां देशानां प्रैष्य-मुद्राङ्कनानि सन्ति समाविष्टानि। प्रधानमन्त्रिणा आहत्य षट् प्रैष्य-मुद्राङ्कनानि प्रख्यापितानि सन्ति। येषु भगवत:गणेशस्य, श्रीहनुमत:, जटायु-पक्षिण:, केवटराजस्य मातु: शबर्याश्च प्रैष्य-मुद्राङ्कनानि सन्ति सम्मिलितानि।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button