संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेशदेहरादूनलाइफस्टाइलहरिद्वार

उत्तराखण्डसर्वकारपक्षत: संस्कृतशिक्षा-उत्तराखण्डस्य निदेशकेन संस्कृतभाषायां स्वतन्त्रतादिवससन्देशं प्रेषितं।

प्रतिवर्षं विभिन्नविभागेषु द्वितीयराजभाषायां प्रसार्यते सन्देशं। •अमृतकालमहोत्सवे देशभक्तेभ्य: श्रद्धाञ्जलिश्च देशवासिभ्य: स्वतन्त्रतादिवसस्य शुभकामना: वितरिता: । • ।।यथा सैनिकाः सुदूरे हिमपर्वते स्थित्वापि देशस्य सीमां रक्षन्ति, हृदये शुभसङ्कल्पं निधाय युद्धं कुर्वन् आत्मानं समपर्यन्ति । तथैव अस्माकमपि दायित्वमस्ति यत् वयमपि स्व-स्वसंस्थाने कर्तव्यनिष्ठया श्रद्धया कार्यं सम्पादयामः । तदैव अस्य राष्ट्रस्य अस्माकं च विकासः सम्भवोस्ति -- "संस्कृतनिदेशक: श्रीशिवप्रसादखाली" ।।

उत्तराखण्ड। भारतदेशेन पृथिव्यां सर्वमानवानां कृते अग्रजन्मपर्यन्तं स्वं स्वं चारित्र्यं शिक्षेरन् भवितव्यम् इत्युपदिष्टम् । अत: भारतराष्ट्रोयं विश्वगुरु: इत्यपि च अस्य भारतस्य द्वे प्रतिष्ठे संस्कृतं संस्कृतिस्तथा । अस्माकं देशस्य द्वयो: प्रतिष्ठयो: राष्ट्रियपर्वोपि स्वतन्त्रतादिवसोयं वर्तते। षड्सप्ततितम: (वार्षिकोत्सव:) स्वतन्त्रतादिवस: पञ्चदश-अगस्टमासे सम्प्राप्यते। अस्योपलक्ष्ये उत्तराखण्डप्रदेशस्य द्वितीयराजभाषायां संस्कृतानुरागिभ्यः, विद्वद्भ्यः, अधिकारिभ्यः, प्राचार्येभ्यः, प्रधानाचार्येभ्यः, प्रधानाध्यापकेभ्यः, शिक्षकेभ्यः, कर्मचारिभ्यः छात्रेभ्यः छात्राभ्यश्च उत्तराखण्डसर्वकारपक्षत: स्वतन्त्रता दिवस-सन्देशः सम्प्रेष्यते। अस्मिन्सन्दर्भे संस्कृतशिक्षा-उत्तराखण्डस्य निदेशकेन श्रीशिवप्रसादखालीवर्येण द्वितीयराजभाषायां स्वतन्त्रतादिवसस्य हार्दिकी: शुभकामना: सम्प्रेषिता: । तै: सन्देशे कथितं यत् पुण्यदिनमिदम् वीरमहापुरुषाणां पुण्यस्मरणे वर्तते । भारतसर्वकारेण स्वधीनतायाः एष: अमृतमहोत्सवकाल: घोषितोस्ति । अस्मिन् अमृतमहोत्सवे देशभक्तेः शौर्यस्य, देशभावनायाः जनजागरणं च संजायते। प्रभावेस्मिन् सहैव विश्वस्य विंशति: देशान् योजयितुं निर्मिते जी-20 समूहे संस्कृतभाषाया: ‘वसुधैवकुटुम्बकम्’ प्रतीकवाक्यं दर्श दर्श श्रावं श्रावं च नूतना प्रेरणा समुत्साह: च सम्प्राप्यते । श्रीखालीवर्येण देशभक्तेभ्य: वीरेभ्य: बलिदानिभ्य: भावपूर्णश्रद्धाञ्जलिमपि समर्पितं ।

शिक्षात्मकसन्देशे तै: विज्ञापितं यत् शिक्षकः समाजस्य पथप्रदर्शक:, तिमिरनाशक: ज्ञानप्रकाशकश्च भवति । श्रेष्ठसमाजस्य निर्माणे देशस्य विकासे च शिक्षकस्य महती भूमिका विद्यते । अस्माकं शास्त्रेषु शिक्षकाय आचार्य: समुच्यते । आचार्यः कस्मात् ? आचारं ग्राह्ययति, आचिनोत्यर्थान, आचिनोति बुद्धिमिति वा । शिक्षकैः छात्राणां बौद्धिकविकासाय चारित्रिकविकासाय सामाजिकविकासाय च सततं चिन्तनीयम् । पाठ्यक्रमेषु मूल्यानां समावेशो करणीयः, शिक्षणकौशलेषु शिक्षणसूत्राणां च प्रयोगो कर्तव्य:, शिक्षणशैली अधिगमश्च वर्धनीयः, नवप्रविष्टच्छात्राणां प्रोत्साहनञ्च करणीयम् ।

तै: वेदवाक्यानुसारेण संस्मारितं यत्
अस्माकं छात्रः विद्याम् अधीत्य सत्यं वद, धर्मं चर, स्वाध्यान्मा प्रमदः, मातृदेवो भव, पितृदेवो भव, आचार्यदेवो भव, इत्यादीनि यानि प्रोक्तानि कर्माणि तानि सेवितव्यानि, नो इतराणीति च मूल्यानाम् आचरणं, पालनं च कृत्वा समाजाय प्रबोधनं च कुर्याच्च सम्प्रति समाजे बहव्यः विकृतयः दृश्यन्ते, तेषां विकृतीनां समूलं नाशं कर्तुं प्रामुख्येन अस्माकमेव दायित्वम् अस्ति । अत: एतादृशी अपेक्षा ममापि समाजस्यापि चास्ति ।

तै:शिक्षकाणां विषये कथितं यत् अधिकारिभ्योऽपि मम अपेक्षा अस्ति, यद् ते स्व-स्वक्षेत्रेषु छात्राणां शैक्षिक प्रगत्यै,समुन्नत्यै च स्वस्थं वातावरणम्, आत्मानुशासनं च निर्मातुं सदैव प्रयत्नरताः भवेयुः, सहैव शिक्षकाणां समस्यानां समाधानेऽपि तत्पराः भवेयुः, येन समस्यारहिता: शिक्षकाः स्वस्थमनसा अध्यापनं कर्तुं सिद्धा: भविष्यन्ति ।

दायित्वविषये संस्कृतनिदेशकेन चोक्तं यत् अस्य राष्ट्रस्य विकासे संवर्धने च सर्वेषां दायित्वमस्ति । यदि सर्वेऽपि स्व-स्वसंस्थाने कर्तव्यनिष्ठया, समर्पणेन, श्रद्धया, त्यागभावनया च कार्यं सम्पादयन्ति तर्हि तत् संस्थानं तीव्रगत्या विकासं करोति । यथा सैनिकाः सुदूरे हिमपर्वते स्थित्वापि देशस्य सीमां रक्षन्ति, हृदये शुभसङ्कल्पं निधाय युद्धं कुर्वन् आत्मानं समपर्यन्ति । तथैव अस्माकमपि दायित्वमस्ति यत् वयमपि स्व-स्वसंस्थाने कर्तव्यनिष्ठया श्रद्धया कार्यं सम्पादयामः । तदैव अस्य राष्ट्रस्य अस्माकं च विकासः सम्भवोस्ति ।

विभागान्तर्गतं शुभकामनां प्रयच्छन् तैरुल्लिखितम् यत्
उत्तराखण्डस्य संस्कृतशिक्षाविभागस्य / प्राथमिक- शिक्षाविभागस्य / माध्यमिक-शिक्षाविभागस्य च सर्वेभ्यः अधिकारिभ्यः कर्मचारिभ्यः, सर्वेषां शासकीयानां/अशासकीय- संस्कृतमहाविद्यालयानां, संस्कृतविद्यालयानां, प्राथमिक- माध्यमिक-विद्यालयानां प्रधानाचार्येभ्यः, शिक्षकेभ्यः, कर्मचारिभ्यः, अध्ययनरतेभ्यः, छात्रच्छात्राभ्य:, तेषाम् अभिभावकेभ्यः, संस्कृतानुरागिभ्यश्च स्वतन्त्रतादिवसस्य स्वाधीनतायाः अमृतमहोत्सवस्य च हार्दिक्यः शुभकामना: इति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button