संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारलाइफस्टाइल

डीएवीपब्लिकविद्यालये अपि सोत्साहेन समाचरितोभवत् स्वातन्त्र्यदिवस:।

प्रेषक:-सिद्धार्थनैथानी।कोटद्वारं।
सप्तसप्ततितमे स्वाधीनतादिवसे कोटद्वारस्थे, बलभद्रपुरस्थिते डीएवीपब्लिकविद्यालये अपि अति उत्साहेन स्वातन्त्र्यदिवससमारोह: समाचरितोभवत् । प्रधानाचार्येण नितिनभाटियामहोदयेन ध्वजारोहणम् अकरोत्। तदनन्तरं सर्वे विद्यालयस्य कर्मचारिणः तिरंगाध्वजं नमस्कारं कृत्वा राष्ट्रगीतं गायन्ति स्म । प्राचार्यः सम्पूर्णं विद्यालयपरिवारं ७७ तमे स्वातन्त्र्यदिवसस्य अभिनन्दनं शुभकामनाश्च दत्त्वा पूर्णभक्त्या शिक्षणकार्यस्य निर्वहनार्थं प्रेरितवान्। तदनन्तरं छात्राः गृहात् विभिन्नेषु कार्येषु भागं गृहीतवन्तः । यस्मिन् शिक्षकाः बालकाः च ‘त्रिरङ्गयुक्तं स्वत:छायाचित्रं’ इति क्रियाकलापस्य ससमूहे उत्साहेन च भागं गृहीतवन्तः। तदनन्तरं विद्यालयपरिवारेण वन्दे मातरम् गीतं गापितम्। कार्यक्रमस्य संयोजनं व्यासवर्य: अकरोत् । अस्मिन् अवसरे सर्वे कर्मचारिण; उपस्थिताः आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button