संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

जीवनस्य प्रत्येकं कणे रामः – कुलदीपमैन्दोला

संस्कृतभाषाप्रशिक्षणकक्षाणान्तर्गतम् उत्तरप्रदेशसंस्कृतसंस्थानेन आयोजितं बौद्धिकसत्रम् । श्रीशशिकान्त: श्रीनूतनविष्णुरेग्मी श्रीअजयकुमार: श्रीनागेशदुबे इत्येतेषां चतुर्णां प्रशिक्षकाणां सञ्चालने सञ्जायते संस्कृतशिक्षणकार्यम् ।

प्रेषक:-शशिकान्त: । उत्तरप्रदेशसंस्कृतसंस्थानेन संस्कृतभाषाप्रशिक्षण- कक्षाणाम् अन्तर्गतं मासिकं मर्यादापुरुषोत्तमश्रीराममाधृत्य बौद्धिकसत्रस्य आयोजनं कृतम्। अस्य बौद्धिकसत्रस्य उद्घाटने मुख्यवक्तृरूपेण उत्तराखण्डराजकीयवरिष्ठमाध्यमिकविद्यालयस्य अध्यापकः कुलदीपमैन्दोला उपस्थित: समामन्त्रित: आसीत् । श्रीराम: सर्वेषामादर्शः इत्यस्मिन् विषये उपस्थितान् छात्रान् स: सम्बोधितवान्। कार्यक्रमस्य आरम्भः संजीवनीमहोदयाया: शङ्खनादेनाभवत् । किशोरीराधेमहोदया वाद्ययन्त्रसहितं सरस्वतीवन्दना कृता। पंकजकुमारः राष्ट्रसम्पोषकाय श्रीरामविषये स्वविचारान् प्रस्तुतवान्। भाषाप्रशिक्षकरूपेण उपस्थितेन नागेशदुबेमहोदयेन अतिथिभ्यः कार्यक्रमस्य रूपरेखायाः परिचयः कृतः। उत्तरप्रदेशसंस्कृतसंस्थानस्य विविधाः योजनाः प्रवर्तयन्त्। संस्कृतसंस्थानं केवलम् उत्तरप्रदेशे संस्कृतकक्षां चालयति वा सम्पूर्णे भारते संस्कृतप्रेमिणां कृते वा इति अपि कथितम् । एतदतिरिक्तं ज्योतिष-कक्षा,कम्प्यूटर-वास्तु-कक्षा इत्यादयः प्रक्रमाः संस्थानद्वारा संचालिताः भवन्ति । कवितया रामस्तुतिः आशीषानुभवकथनं रामसम्बद्धरोचकतथ्यानि डॉ. विदुष्या प्रस्तुतानि । अस्मिन् अवसरे मधुरकण्ठेन श्रीरामाष्टकं ज्योतिलक्ष्मीद्वारा सईशा, नारायणी च नामनी लघुबालिके श्रीरामरक्षास्तोत्रं कृतवत्यौ। येन सर्वे श्रोतारः मंत्रमुग्धाः अभवन्। मुख्यवक्तृरूपेण आगतः कुलदीपमैन्दोलावर्यः सर्वेषां प्रशिक्षूणां कृते स्वजीवनं राममयं कर्तुं प्रेरितवान् यतोहि अस्माकं चिरपुरातनसंस्कृतिः राममयी वर्तते । अस्माकं जीवनस्य प्रत्येकं कणे रामोऽस्ति । संस्कृतकार्याय कुलदीपमैन्दोला बहुत्र संस्कृतसम्मानेन सम्मानितोस्ति । स: संस्कृतशिक्षाविभागद्वारा , उत्तराखण्डसंस्कृत-अकादमीद्वारा , च सम्मानितोस्ति। उत्तराखण्डसंस्कृतविश्वविद्यालये स: शिक्षाशास्त्रविभागे
असि.प्रो. इत्यनेन रूपेण ससम्मानेन पाठितवानपि । आई.आई.टीरुडकीसंस्कृतक्लबद्वारा सुभाषितसंस्कृतपाठ्यक्रमे
अपि ससम्मानप्रमाणपत्रेण सभाजित: अथ च आयुर्वेदविश्वविद्यालये अपि संस्कृतभारत्या: अन्तर्गतम् आयुर्वेदसूक्तिमाध्यमेन शिक्षणे सम्मानितोभवत् । हिमालयनगढवालविश्वविद्यालयद्वारा च गढवालसभाद्वारा च साहित्यांचलद्वारा तथा शिक्षाविभागडायटपौडीद्वारा च डिस्कवर24न्यूज उत्तराखण्डद्वारा समाजे संस्कृतशिक्षणाय प्रसारणाय च सम्मानितोस्ति च विद्याभारतीद्वारा प्रान्तस्तरे समलंकृतोस्ति । स: साम्प्रतं संस्कृतभारत्या: सहप्रान्तप्रचारक: एवं पौडीसहविभागसंयोजक: वर्तते। कार्यक्रमोऽयं संस्थानस्य प्रशिक्षकै: सुष्ठुतया सम्पादितः अपि च प्रशिक्षकेण शशिकान्तद्वारा सञ्चालनं विहितम् । कार्यक्रमे उत्तरप्रदेशसंस्कृतसंस्थानस्य निदेशकः श्री विनयश्रीवास्तवः, सर्वेक्षिका चन्द्रकला शाक्य:, प्रशासनिकपदाधिकारी जगदानन्दझा, प्रशिक्षणप्रमुखः श्रीसुधीष्ठमिश्रः समन्वयकाश्च धीरजमैठाणी, राधाशर्मा, दिव्यरञ्जनादयः अपि उपस्थिताः आसन्। कार्यक्रमस्य समापने प्रशिक्षकनूतनविष्णुरेग्मीद्वारा धन्यवादज्ञापनं प्रशिक्षकाजयकुमारद्वारा शांतिमंत्रश्च कृतः। एताः कक्षाः संस्कृतप्रेमिणां कृते प्रतिमासं निःशुल्कं चाल्यन्ते । प्रमाणीकरणस्य परीक्षायाः च योजना अस्ति । कोऽपि जिज्ञासुः तस्मिन् प्रवेशं प्राप्तुं शक्नोति । अत्र परीक्षायाः परं प्रमाणपत्रमपि दीयते । स्वानुकूलसमयं मासं चित्वा च पञ्जीकरणं करणीयम् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button