संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डहरिद्वार

ज्ञानं विज्ञानं च संस्कृतभाषायां निहितं तस्य अन्वेषणस्य आवश्यकता वर्तते ——- “सचिव:आर्य:”

🔵डॉ. वाजश्रवा आर्यः स्वीकृतवान् उत्तराखण्ड-संस्कृत-अकादमीसचिवपदस्य अतिरिक्तप्रभारं 🔵

।हरिद्वारं। बुधवासरे उत्तराखण्डशासनस्य संस्कृतशिक्षानुभागस्य सचिव: श्रीचन्द्रेशकुमार: उत्तराखण्ड-संस्कृत-अकादमीसचिवपदस्य अतिरिक्तप्रभारं संस्कृतशिक्षासहायकनिदेशकाय डॉ. वाजश्रवा-आर्यवर्याय प्रदत्तवान् तदर्थम् उपसचिवस्य प्रदीपमोहननौटियालस्य आज्ञया प्रभार: सम्प्राप्त: । तत्कालप्रभावात् एव आदेशानुसारं डा.वाजश्रवार्येण उत्तराखण्ड-संस्कृत-अकादमीसचिवपदस्य अतिरिक्तप्रभारम् अपि स्वीकृतं । इत: पूर्वमपि श्री आर्य: संस्कृतशिक्षासहायकनिदेशक: वर्तते एवं च संस्कृतशिक्षापरिषद: उपसचिवरूपेण दायित्वं निर्वहति ।

प्रभारग्रहणावसरे संस्कृत-अकादम्या:, एवं च संस्कृतशिक्षानिदेशालयस्य, संस्कृतशिक्षापरिषदः अधिकारिणः कर्मचारिण: च डॉ. आर्यस्य स्वागतं कृत्वा अभिनन्दनं कृतवन्तः, संस्कृतविद्यालयानां महाविद्यालयानाञ्च शिक्षकाः, कर्मचारिण:, गणमान्यजनाः च अकादम्याः सचिवं मिलित्वा शुभकामनाम् अर्पितवन्तः।

अकादम्याः सचिवः डॉ. आर्यः उक्तवान् यत् भविष्यं संस्कृतभाषायाः भविष्यति, अस्माभिः सर्वैः मिलित्वा देववाणीसंस्कृतस्य विकासाय निरन्तरप्रयत्नाः करणीयाः। सम्पूर्णं ज्ञानं विज्ञानं च संस्कृतभाषायां निहितम् अस्ति, सम्प्रति तस्य अन्वेषणस्य आवश्यकता वर्तते।

कालेस्मिन् संस्कृतशिक्षानिदेशक: पद्माकरमिश्रः, अकादम्याः वित्तपदाधिकारी सत्येन्द्रडबरालः, शोधपदाधिकारी डॉ. हरीशगुरुरानी, प्रकाशनपदाधिकारी किशोरीलालरतूडी, श्रीमती लीला रावत:, रामकठैतः, हरीशनाथः, पंकजपालीवालः, गणेशफोन्दणी, विवेकपञ्चभैया , रजनी मलासी। आशारामसेमवाल:, दिनेशपाण्डेय:, कृष्ण: उनियाल:, अंजलि: शालू, दिव्या, आकांक्षा, ओमप्रकाशभट्ट:, सुन्दर: आदय: उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button