संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशउत्तराखण्डकण्वनगरीकोटद्वारनैनीतालसंस्कृत भारती

द-न्यू-स्कॉलर्स-एकेडमी” इत्यत्र संस्कृतभारत्या: दशदिवसीयसरलसंस्कृत-सम्भाषणशिबिरं प्रारभत्।

श्रीजगदीशचन्द्रजोशीद्वारा तथा हिमानीजोशीद्वारा संचाल्यते शिविरं।

लालकूप-नगरान्तर्गतं बिन्दुखत्ता-इन्द्रानगरे 2 ग्रामे “द-न्यू-स्कॉलर्स-एकेडमी” इत्यस्मिन् विद्यालये शिक्षका: छात्रा: च अन्ये जना: अपि दशदिवसाभ्यन्तरे संस्कृतेन सम्भाषणं करिष्यन्ति। तदर्थम् हल्द्वान्यां रविवासरे अस्मिन्विद्यालये संस्कृतभारत्या: दशदिवसीय-सरलसंस्कृतसम्भाषणशिबिरस्य उद्घाटनम् अभवत्। शिबिरशिक्षकस्य जगदीशजोशीवर्यस्य अनुसारेण शिबिरोsयं अस्मिन् क्षेत्रे ग्रामीण-परिवेशे च प्रथमवारं सञ्जायते। उद्घाटनकार्यक्रमस्य आरम्भ: सरस्वती-मातु: पुरत: दीपप्रज्ज्वलनेन जात: । ध्येयमन्त्र: प्रान्तप्रचारप्रमुखेन श्रीजगदीशचन्द्रजोशीमहोदयेन कृत: । प्रास्ताविक-उद्बोधनं प्रान्तसहमन्त्री डॉ. चन्द्रप्रकाश-उप्रेती-महोदयेन कृतम् ।

उप्रैतीमहोदयेन संस्कृतभारतीति संघटनविषये तथा तस्य कार्याणां विषये सर्वेsपि बोधिता: । विद्यालयस्य प्रधानाचार्या श्रीमती शशिजोशी महोदया संस्कृतभारत्या: धन्यवादं प्रकटितवती तथा सर्वेभ्यः शिबिरे मनोयोगेन पठनाय प्रेरितवती। अन्ते च नैनीताल-जनपदसंयोजक: डॉ. नीरजजोशी महोदय: सर्वेषां धन्यवादज्ञापनं कृतवान्।

कार्यक्रमस्य सफलसञ्चालनं नैनीताल-जनपदसम्पर्कप्रमुख: डॉ. हेमन्तजोशी महोदय: कृतवान्। कार्यक्रमेsस्मिन् विद्यालयस्य प्रबन्धक-महोदय: श्रीमुकेशजोशी , हल्द्वानी-महानगरसंयोजक: श्रीकैलाशचन्द्रसनवाल: विद्यालयस्य शिक्षक-शिक्षिका: छात्रछात्राश्च उपस्थिता: आसन्।
अस्य शिबिरस्य शिक्षक: प्रान्तप्रचारप्रमुख: श्रीजगदीशचन्द्रजोशी तथा सहायकशिक्षिका लालकूप-नगरसंयोजिका श्रीमती हिमानी जोशी स्त: ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button