पटियालाजनपदे गीता-शिक्षण-केन्द्रस्य उद्घाटनम्
🔵गीताया: ज्ञानं प्रत्येकस्य कृते महत्वपूर्णम् अस्ति----"डॉ. ओमनदीप:" 🔵

अद्य संस्कृतभारती पञ्जाबप्रान्तद्वारा श्री शिवमन्दिर-अर्बन-अस्टेट-फेज़ 1 इत्यत्र
पटियालायां गीताशिक्षणकेन्द्रस्य शुभारम्भ: जात:।
अस्मिन् केन्द्रे डॉ. ओमनदीप: पटियालाजिल्ला- सम्पर्कप्रमुखमहोदयेन उक्तम् यत् गीताया: ज्ञानं प्रत्येकस्य कृते महत्वपूर्णमस्ति गीताज्ञानेन एव वयं स्वकीयजीवनलक्ष्यं प्राप्तुं शक्नुम: गीताया: सम्यक् ज्ञानाय सम्यगर्थप्राप्तये संस्कृतभाषायाः ज्ञानम् अतीव महत्वपूर्णम् , अनया भाषया एव वयं गीताया: गूढ़ान् अर्थान् अवगन्तुं शक्नुमः।
अस्मिन् केन्द्रे मञ्चसञ्चालनं श्रीमान् गगनदीप: पाठक: संस्कृतभारतीपटियाला जिल्लामन्त्री अकरोत्। तथा मङ्गलाचरणम् लक्ष्य: शर्मा पटियालाजिल्लाविस्तारक: अकरोत्। अस्मिन् अवसरे प्रान्तस्य सहमन्त्री श्रीमान् अजय: आर्य: अपि उपस्थितः आसीत्। केन्द्रे आगतानाम् धन्यवाद: डॉ. रविदत्तशर्ममहोदय: कृतवान्।