संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशलखनऊ

नलिकासंयोजनं प्रदानस्य विषये उत्तरप्रदेशेन राजस्थानम् अपि पराजितम्

योगिसर्वकारेण हर–घर–नल–योजनायां प्राप्ता महती उपलब्धिः

• सप्तनवतिलक्षाधिकपरिजनेभ्यः नलिकासंयोजनं प्रदायमानं राज्यम् अभवत् उत्तरप्रदेशः।

• नमामिगङ्गा–ग्रामीणजलापूर्तिः–विभागयोः योजनया प्रतिदिनं चत्वारिंशतसहस्राधिकेभ्यः ग्रामीणजनेभ्यः दीयते नलिकासंयोजनम्।

लखनऊ। हर–घर–नल–योजनायां योगिसर्वकारेण अपरं महती उपलब्धिः प्राप्ता । यत्र उत्तरप्रदेशः नलसंयोजनस्य दृष्ट्या राजस्थानं अतिक्रान्तवान् तथापि अधिकतमं नलसंयोजनं प्रदातुं देशे तृतीयस्थानं प्राप्तवान् । उत्तरप्रदेशः गुरुवासरपर्यन्तं सप्तनवतिलक्षाधिकग्रामीणगृहेषु नलसंयोजनं प्रदत्तवान् अस्ति । एतेन सह जलजीवनाभियानस्य हर–घर–जलयोजनया शुद्धपानजलस्य लाभः पञ्चकोट्यधिकेभ्यः ग्रामजनेभ्यः प्राप्तुं आरब्धा । विवरणानुसारम् उत्तरप्रदेशः गुरुवासरपर्यन्तं 97,11,717 तः अधिकेभ्यः परिजनेभ्यः नलसंयोजनं प्रदत्तवान् । 5,82,70,302 तः अधिकाः ग्रामजनाः योजनायाः लाभं प्राप्नुवन्ति । यद्यपि राजस्थाने 39,33,140 नलसंयोजनानि दत्तानि ।

नमामिगङ्गे–ग्रामीणजलापूर्तिः–विभागयोः प्रधानसचिवः अनुरागश्रीवास्तवस्य अनुसारे उत्तरप्रदेशस्य 36.59 प्रतिशतं ग्रामीणगृहेषु प्रत्येकं गृहे जलं प्रदातुं सर्वकारस्य संकल्पः पूर्णः । यत्र राजस्थाने प्रत्येकं गृहे 36.47 प्रतिशतं ग्राम्यगृहेषु जलं प्राप्तम् । उत्तरप्रदेशे यत्र प्रतिदिनं चत्वारिंशतसहस्राधिकेभ्यः परिजनेभ्यः नलसंयोजनं दीयते । यत्र राजस्थाने एतत् विवरणं पञ्चसहस्राधिकम् अस्ति । मुख्यमन्त्रिणा हर–घर–जलयोजनायाः निरन्तरसमीक्षायाः फलस्वरूपं फरवरीमासे एव उत्तरप्रदेशेन झारखण्डं पश्चिमबङ्गं च त्यक्त्वा एकाशीतिलक्षाधिकेभ्यः परिजनेभ्यः नलसंयोजनं प्रदातुं उपलब्धिः प्राप्ता आसीत् अधिकारिणाम् अनुसारं योगिसर्वकारः भारतसर्वकारस्य जलजीवनाभियानयोजनां लक्ष्यं प्रति द्रुततमं गतिं प्रति नेति । अतीव शीघ्रमेव प्रधानमन्त्रिणः नरेन्द्रमोदिनः महत्त्वाकांक्षिणी योजनायां उत्तरप्रदेशः प्रथमस्थाने भवितुं गच्छति । अस्माकं उद्देश्यं प्रत्येकं द्वारपदे ग्रामेभ्यः, निर्धनेभ्यः, कृषकेभ्यः च स्वच्छं पेयजलं प्रदातुं वर्तते ।

• नलसंयोजनं प्रदातुं शीर्ष पञ्चराज्यानि

राज्यम् नलसंयोजनानां सङ्ख्या

बिहारम् 1,59,10,093
महाराष्ट्रम् 1,09,98,678
उत्तरप्रदेशः 97,11,717
गुजरातम् 91,18,449
तमिलनाडुः 79,62,581

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button