संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
लखनऊ

मार्चमासस्य पञ्चविंशतिदिनाङ्के षड्वर्षाधिकषड्दिवसानां मुख्यमन्त्री भविष्यति योगी, गणनां कारयिष्यति उपलब्धिनाम्

सम्पूर्णप्रदेशे पूर्णोल्लासेन आयोजयिष्यते योगी 2.0 इत्यस्य प्रथमवर्षः

• जनपदेषु प्रभारीमन्त्रिणः जनप्रतिनिधिनः च वक्ष्यति सर्वकारस्य उपलब्धयः

लखनऊ। योगिसर्वकारस्य द्वितीयकार्यकालस्य प्रथमवर्षं मार्चमासस्य पञ्चविंशतितमे दिनाङ्के सम्पूर्णे राज्ये महता उल्लासेन आयोजयिष्यते । भारतीयजनतादलेन सर्वकारेण च तदर्थं सज्जता आरब्धा । भाजपादलस्य कृते एषः उत्सवः अपि महत्त्वपूर्णः भवति यतोऽहि योगिनः आदित्यनाथस्य उत्तरप्रदेशस्य मुख्यमन्त्रीत्वस्य अभिलेखः दीर्घतमः अस्ति । योगी 2.0 इत्यस्य प्रथमवर्षं समाप्तमात्रेण योगी षड्वर्षाधिकषड्दिवसानां मुख्यमन्त्री भविष्यति । अस्मिन्नवसरे एकत्र यत्र मुख्यमन्त्री योगी राजधान्यां पत्रकारसम्मेलनं करिष्यति । तत्रैव जनपदेषु प्रभारीमन्त्रिणां नेतृत्वे पत्रकारवार्तायाः आयोजनं भविष्यति ।

राजधान्याम् आयोजिते पत्रकारसम्मेलने मुख्यमन्त्री योगी, उपमुख्यमन्त्री केशवप्रसादमौर्यः अपि च ब्रजेशपाठकः, भाजपादलस्य प्रदेशाध्यक्षः भूपेन्द्रसिंहचौधरी, प्रदेशसङ्गठनमहासचिवः धर्मपालसिंहः अपि च अन्यदलस्य अधिकारिणः उपस्थिताः भविष्यन्ति । एतस्मिन् काले मुख्यमन्त्री योगी स्वसर्वकारस्य षड्वर्षाणां उपलब्धीनां जनसमक्षे प्रस्तुतं करिष्यति । सम्भावना अस्ति यत् पत्रकारसम्मेलने मुख्यमन्त्री योगी स्वस्य षड्वर्षाणां सर्वकारस्य कार्यकाले राज्ये परिवर्तनस्य विषये वक्ष्यति । एतेन सह सः राज्ये उन्नत-विधिव्यवस्थायाः कारणेन निर्मितस्य निवेशानुकूलावातावरणस्य विषये सूचनां दास्यति, तेभ्यः रोजगारस्य स्वरोजगारस्य च अवसरानां विषये च सूचनां दास्यति ।

अपरपक्षे जनपदानां प्रभारीमन्त्री, राज्यमन्त्री (स्वतन्त्रप्रभारं) राज्यमन्त्री च स्वप्रभारे जनपदे उपस्थिताः भविष्यन्ति, यत्र ते मुख्यमन्त्रिणः पत्रकारसम्मेलनानन्तरं पत्रकारवार्तां करिष्यन्ति । तैः सह स्थानीयसांसदाः, विधायकाः, जिलापञ्चायताध्यक्षाः, विधानपरिषदसदस्याः उपस्थिताः भविष्यन्ति । अस्मिन् काले सः भाजपासर्वकारस्य षड्वर्षेषु जनपदेषु कृतानां विकासकार्याणां गणनां कारयिष्यति । एतत् अतिरिच्य राज्यसभायाः सांसदः/ लोकसभायाः सांसदः / विधायकः/ विधानपरिषदसदस्याः / जिलापञ्चायताध्यक्षाः / जिलाध्यक्षाः तेषु जनपदेषु पत्रकारसम्मेलनस्य आयोजनं करिष्यन्ति यत्र प्रभारीमन्त्रिणः उपस्थिताः न भविष्यन्ति ।

“योगिना गतवर्षस्य मार्चमासस्य पञ्चविंशतितमे दिनाङ्के स्वीकृतं द्वितीयवारं मुख्यमन्त्रिणः शपथ–ग्रहणम्”

गतवर्षे आयोजिते विधानसभानिर्वाचने पञ्चपञ्चाशताधिकद्विशत आसनानि जित्वा भाजपादलेन द्वितीयवारं शासनं प्राप्तम् । तदनन्तरं योगी आदित्यनाथः द्वितीयवारं मुख्यमन्त्रीरूपेण मार्चमासस्य पञ्चविंशतितमे दिनाङ्के शपथग्रहणं कृतवान् । एवं प्रकारेण तस्य सर्वकारस्य द्वितीयकार्यकालस्य प्रथमवर्षम् अस्मिन् वर्षे मार्चमासे सम्पन्नं भवति । यस्य उत्सवस्य सज्जता आरब्धा अस्ति।

“निरन्तरं मुख्यमन्त्रिणः कीर्तिमान्”-

योगी 2.0 इत्यस्य प्रथमवर्षं सम्पन्नं भवति एव निरन्तरं षडदवर्षाधिकषड्दिवसानां च यावत् मुख्यमन्त्रीपदे स्थातुं अभिलेखं योगिना स्वनाम्ना धारयिष्यति । एवं तेन मार्चमासस्य प्रथमदिनाङ्के (पञ्चवर्षोत्तरषड्चत्वारिंशत्यधिकत्रिशतदिवसाः, पदस्थः) एव दीर्घकालं यावत् मुख्यमन्त्रीत्वेन अभिलेखं स्वनाम्ना कृतम् आसीत् । योगिनः अनन्तरं काङ्ग्रेसदलस्य मुख्यमन्त्री डॉ. सम्पूर्णानन्दः (पञ्चवर्षोत्तरपञ्चचत्वारिंशत्यधिकत्रिशतदिवसाः) अस्मिन् पदे सर्वाधिककालं यावत् आसीत् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button