संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

षड्वर्षेषु शतवारं बाबाविश्वनाथस्य मन्दिरे मुख्यमन्त्रिणा योगिना आदित्यनाथेन कृतं शतवारं दर्शनम्

काशीविश्वनाथस्य दर्शनं शतवारं क्रियमाणः प्रथमः मुख्यमन्त्री अभवत् योगी आदित्यनाथः

• प्रायः प्रति एकविंशतिदिवसेषु विश्वनाथमन्दिरे प्राप्तः उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः

• बाबाविश्वनाथं लोककल्याणाय, देशस्य प्रदेशस्य च कल्याणाय कुर्वन्ति प्रार्थना

वाराणसी। मुख्यमन्त्रिणा योगिना आदित्यनाथेन शनिवासरे श्रीकाशीविश्वनातमन्दिरे दर्शनं पूजनं कृतम् । अनेन सहैव मुख्यमन्त्रिणा रूपे योगी आदित्यनाथः श्रीकाशीविश्वनाथमन्दिरे शततमीं दर्शनं क्रियमाणः प्रथमः मुख्यमन्त्री अपि अभवत् । 2017तमे वर्षे प्रदेशस्य शासनं प्राप्तवतः योगी आदित्यनाथः यदा अपि काशीम् आगच्छति, प्रायः सः प्रतिवारं बाबाविश्वनाथस्य मन्दिरे दर्शनम् अवश्यमेव करोति । मुख्यमन्त्रिणा योगिना मन्दिरे षोडषोपचारविध्या दर्शनं पूजनं कृत्वा लोककल्याणस्य कामनां क्रियते । 2017तमं वर्षारभ्य अधुना पर्यन्तं स्वप्रथमे द्वितीये च कार्यकाले मुख्यमन्त्री योगी आदित्यनाथः शतवारं विश्वनाथमन्दिरे दर्शनं क्रियमाणः प्रथमः मुख्यमन्त्री अभवत् । तत्रैव मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरे त्रयोदशाधिकैकशततमं वारं वाराणस्याः द्विदिवसीयायात्रायां आगतः । यात्रायाः द्वितीयदिवसे मुख्यमन्त्रिणा श्रीकाशीविश्वनाथधाम्नि दर्शनं पूजनं च कृतं, येन नूतनं कीर्तिमानं स्थापितम् ।

योगी आदित्यनाथः मासे एकवारं वा कदाचित् द्विवारं वा काशीम् अवश्यं गच्छति। प्रत्येकस्मिन् भ्रमणकाले मुख्यमन्त्री विकासकार्यस्य समीक्षां करोति, क्षेत्रनिरीक्षणं च करोति । यस्य परिणामः वाराणस्याः सर्वतो विकासे दृश्यते। अपरपक्षे षड्वर्षाणाम् अनुसारं मुख्यमन्त्री योगी प्रायः प्रति एकविंशतिदिवसेषु काशीविश्वनाथमन्दिरं पूजनं कर्तुं गच्छति । योगी आदित्यनाथः प्रथमद्वितीयकार्यकालस्य द्विसप्ततिः मासेषु प्रायः शतवारं बाबाविश्वनाथस्य धाम्नि प्राप्तवतः प्रथमः मुख्यमन्त्री अभवत् । प्रथमवारम् उत्तरप्रदेशस्य प्रभारं स्वीकृत्य योगी आदित्यनाथः आशीर्वादं प्राप्तुं 2017तमवर्षतः मार्च 2022तमवर्षपर्यन्तम् आहत्य चतुःसप्ततिः वारं भगवतः विश्वनाथस्य समीपं प्राप्तवान् । श्रीकाशीविश्वनाथस्य अर्चकः डॉ. नीरजकुमारपाण्डेयः कथयति यत् अस्य सनातनधर्मं बाबाविश्वनाथं च प्रति तस्य अपारं भक्तिः दृश्यते। मुख्यमन्त्री योगी आदित्यनाथ षोडशोपचारपूजनेन रुद्रसूक्तद्वारा च विश्वनाथस्य अभिषेकं करोति । तेन सह विश्वस्य नाथं बाबाविश्वनाथं लोककल्याणाय, देशाय, प्रदेशस्य च सर्वकल्याणाय कामनां करोति । कथयामः यत् गतवर्षस्य सितम्बरमासस्य नवदिनाङ्के यदा मुख्यमन्त्रिणा वाराणस्याः शततमीं यात्रां कृतवान् तदा तेन अष्टाशीतिः तमं वारं श्रीकाशीविश्वनाथधाम्नि दर्शनं पूजनं कृतम् । एतस्य अनन्तरं मार्चमासस्य अष्टादशदिनाङ्कपर्यन्तं द्वादशवारं बाबाविश्वनाथस्य न्यायालये उपस्थितः अभवत् ।

2022तमे वर्षे, सितंम्बरमासस्य नवदिनाङ्कपर्यन्तं 88तमं वारं
2022तमे वर्षे, अक्टूबरमासस्य एकदिनाङ्के 89तमं वारं
2022तमे वर्षे, अक्टूबरमासस्य चतुर्दशदिनाङ्के 90तमं वारं
2022तमे वर्षे, नवम्बरमासस्य षड्दिनाङ्के 91तमं वारं
2022तमे वर्षे, नवम्बरमासस्य एकादशदिनाङ्के 92तमं वारं
2022तमे वर्षे, दिसम्बरमासस्य एकादशदिनाङ्के 93तमं वारं
2022तमे वर्षे, जनवरीमासस्य अष्टदिनाङ्के 94तमं वारं
2022तमे वर्षे, जनवरीमासस्य द्वादशदिनाङ्के 95तमं वारं
2022तमे वर्षे, जनवरीमासस्य नवदशदिनाङ्के 96तमं वारं
2022तमे वर्षे, जनवरीमासस्य विंशतिदिनाङ्के 97तमं वारं
2022तमे वर्षे, फ़रवरीमासस्य चतुर्दिनाङ्के 98तमं वारं
2022तमे वर्षे, फ़रवरीमासस्य त्रयोदशदिनाङ्के 99तमं वारं
2022तमे वर्षे, मार्चमासस्य अष्टादशदिनाङ्के 100तमं वारं

इनसेट 1

“कालभैरवमन्दिरे अपि मुख्यमन्त्रिणा कृतं शततमवारं पूजनं दर्शनं च”

बतौर प्रदेश के मुख्यमंत्री योगी आदित्यनाथ ने श्रीकाशी विश्वनाथ मंदिर में 100 बार दर्शन पूजन कर इतिहास तो रचा ही है, इसके अलावा वे काशी के कोतवाल कहे जाने वाले बाबा काल भैरव के दरबार में 100 बार हाजिरी लगाने वाले मुख्यमंत्री भी बन गये हैं। मुख्यमंत्री ने शनिवार को सुबह बाबा काल भैरव मंदिर में विधि-विधान से दर्शन पूजन और आरती की। इस दौरान मंदिर के बाहर डमरू बजा रहे एक बालक को देख मुख्यमंत्री ने रुककर प्यार से उसका नाम पूछा और उससे उसकी पढ़ाई को लेकर जानकारी ली।
प्रदेशस्य मुख्यमन्त्रीरूपेण योगी आदित्यनाथः न केवलं श्रीकाशीविश्वनाथमन्दिरे शतवारं पूजां कृत्वा इतिहासस्य निर्माणं कृतवान्, एतस्य अतिरिक्तं सः काश्याः आरक्षि इति नाम्ना प्रसिद्धः बाबाकालभैरवस्य मन्दिरस्य शतवारं दर्शनं क्रियमाणः मुख्यमन्त्री अपि अभवत् अस्ति । मुख्यमन्त्रिणा शनिवासरे प्रातःकाले बाबाकालभैरवमन्दिरे नियमविधानानुसारं दर्शनं, पूजनम्, आरर्तिक्यं च कृतम् । एतस्मिन् समये मन्दिरस्य बहिः डमरूक्रीडां कुर्वन्तं बालकं दृष्ट्वा मुख्यमन्त्री स्थगित्वा तस्य नाम प्रेम्णा पृष्ट्वा तस्य अध्ययनस्य विषये पृष्टवान् ।

“भ्रमणस्य द्वितीयदिने मुख्यमन्त्रिणा योगिना परिपथगृहस्य कृतं निरीक्षणम्”

मुख्यमन्त्रिणा योगिना आदित्यनाथेन शनिवासरे प्रातःकाले परिपथगृहस्य निरीक्षणं कृतम् । अस्मिन् काले तेन मुख्यतया नवनिर्मितभवनस्य निरीक्षणं कृतम् । पूर्वं शुक्रवासरे सायं वाराणसीं प्राप्य मुख्यमन्त्री योगी विकासकार्यस्य स्थलनिरीक्षणं कुर्वन् अधिकारिभ्यः सर्वाणि दिङ्निर्देशाः दत्तवान्। मुख्यमन्त्रिणा करखियांवं स्थितं एकीकृतसङ्कुलगृहं, 34वाहिनीपीएसीबलं, रोहनियाआरक्षालये निर्मितस्य सैन्यगृहस्य च निरीक्षणं कुर्वन् मुख्यमन्त्रिणा अधिकारिभ्यः निर्देशाः दत्ताः । अपरपक्षे शनिवासरे प्रातःकाले मुख्याधिकारी वाराणसीपरिपथगृहस्य नवनिर्मितभवनस्य निरीक्षणं कृतवान्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button