संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डहरिद्वार

अखिलभारतीयसंस्कृतशोध-सम्मेलनस्य संस्कृतछात्रप्रतिभासम्मानेन सह सम्पूर्ति:

"३८ छात्रै: प्राप्तं संस्कृतछात्रप्रतिभासम्मानं

• शिवप्रसादखालीवर्येण कृतं सहभागीशोधविदुषां तथा च सर्वेषां पुरस्कारविजेतृछात्राणां अभिनन्दनं

• सम्पूर्णस्य देशस्य १२ राज्येभ्यः ४१ शोधछात्रै: प्रस्तुतं पत्रं

उत्तराखण्ड। अखिलभारतीयसंस्कृतशोधसम्मेलनस्य समापनम् संस्कृतछात्रप्रतिभासम्मानेन पूर्णं जातं। हरिद्वारे उत्तराखण्डसंस्कृताकादमीसङ्कुलेन, संस्कृतभवने अखिलभारतीयसंस्कृतशोधसम्मेलनस्य समापनम् तथा च संस्कृतछात्रप्रतिभासम्मानसमारोहस्य सम्पूर्ति: कृत:, माध्यमिकोच्चतरमाध्यमिकविश्वविद्यालयस्तरस्य मञ्चे अतिथिद्वारा प्रथमद्वितीयतृतीयपुरस्काराः संस्कृतविषये सर्वाधिकाङ्कं प्राप्तवद्भ्य: ३८ छात्रेभ्य: प्रदत्ताः । श्रीविश्वनाथसंस्कृतविद्यालयस्य देहरादूनस्य छात्रा रिंकी बरिहा इत्यस्याः प्रथमपुरस्कारः ५००० रुप्यकाणां द्वितीयः पुरस्कारः ४००० रुप्यकाणां च वेदमहाविद्यालयस्य ऋषिकेशस्य छात्राय मनीषस्यालस्य, श्रीविश्वनाथसंस्कृतविद्यालयस्य छात्राय ओमितेः च प्राप्तः , देहरादून, उत्तराखण्ड संस्कृतशिक्षापरिषद् अन्तर्गतं पूर्वमध्यमस्य द्वितीयवर्षे साहुः तृतीयं पुरस्कारं 3000 रुप्यकाणि दत्तवान्। तथैव संस्कृतशिक्षापरिषदः उत्तरमध्यमद्वितीयवर्षे शिविरणा प्रथमपुरस्कारः, हिमांशुभट्टः प्रथमः, अनुरागबडोला तृतीयपुरस्कारेण पुरस्कृतः ।

उत्तराखंडविद्यालयीशिक्षापरिषदन्तर्गतम् उच्चतरविद्यालयत: पीटीतिवारी इण्टर-कॉलेजजसपुरत: हेमंत सिंह:, इण्टर-कॉलेज -सिद्धखाल पौड़ीत: जतिनरावत: द्वितीय: व संजू तृतीय: पुरस्कारेण सम्मानितोभवत् । तथैव वरिष्ठमाध्यमिकत: खुशी प्रथमा, नीलम द्वितीया, अंकिता प्रथमा स्वस्वपुरस्कारेण सह अतिभि: सम्मानिता: अभवन् ।

उच्चशिक्षाया: अन्तर्गतं गढ़वालविश्वविद्यालयश्रीनगरत: एम.ए.कक्षात: महिमा सैनी प्रथमा, दीक्षा द्वितीया, कुमारी दीपा तृतीया एवं रघुनाथकीर्तिपरिसरदेवप्रयागत: बी.ए.कक्षात: आकाशगैरोला प्रथम:, पुरस्कारः च रोहितकोठारी प्रथम: उत्तराखण्डसंस्कृतविश्वविद्यालयात् शास्त्रीवर्गे सागरखेमरिया इत्यस्मै प्रथमपुरस्कारः, आचार्यवर्गे अजयदाधिच् इत्यस्मै प्रथमपुरस्कारः, देवसंस्कृतिविश्वविद्यालयात् बी.ए. कक्षात: रूपाली यदुवंशी प्रथमा एम.ए. कमला रानी च प्रथमा स्वस्वपुरस्कारेण सहैव अतिभि: सम्मानिता: अभवन् ।

शोधसम्मेलने सम्पूर्णस्य देशस्य १२ राज्येभ्यः ४१ शोधछात्राः शोधपत्राणि प्रस्तुतवन्तः । येषु हिमाचलप्रदेश:, राजस्थानं, उड़िया, पश्चिमबंगाल:, मध्यप्रदेश:, असम:, आंध्रप्रदेश:, महाराष्ट्र:, उत्तरप्रदेश: आदिराज्यानां प्रतिभागिभि: भाग: गृहीत: | कार्यक्रमस्य अध्यक्षतां कुर्वन् श्री शिवप्रसादखाली इत्यनेन सहभागीशोधविदुषां तथा च सर्वेषां पुरस्कारविजेतृछात्राणां अभिनन्दनं कृतम्। कार्यक्रमस्य मुख्यातिथिः श्री गंगासभाध्यक्षः नितिनगौतममहोदयः तथा च विशेषातिथिः गंगासभा हरिद्वारस्य महासचिवः तन्मयवशिष्ठमहोदयः उत्तराखण्डसंस्कृतविश्वविद्यालयस्य कुलसचिव: गिरीशकुमार-अवस्थीमहोदयः च आसन्।

आगन्तुकानां अतिथिभ्यः धन्यवादपत्रं अकादम्याः वित्तपदाधिकारिणा श्री एस.पी. डबराल: विहितवान् एवं मंचसंचालनं शोधाधिकारी डॉ. हरिशचन्द्रगुरुरानी कृतवान् ।

अकादम्या: प्रकाशनाधिकारी श्री किशोरीलालरतूडी प्रशासनिक-अधिकारी श्रीमती लीला रावत:, पुरस्कारवितरणसमारोहस्य संयोजक: श्रीमतीरमाकठैत, डॉ. अरविंदनारायणमिश्र:, डॉ. प्रकाशपंत:, डॉ. पद्मकरमिश्र:, डॉ. वाजश्रवा आर्य:, डॉ. अन्नपूर्णा , डॉ. प्रदीपसेमवाल:, डॉ. जनार्दनकैरवाण: विवेक:, अजय:, दिव्या, बेवी, कविता, आकांक्षा, मोहित:, पंकज:, सुशील:, ओमप्रकाश:, संतोष:, अश्विनी , रोशनगौड: आदय: उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button