संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशलखनऊ

समाजे व्याप्तानां विसङ्गतिनां समाधानं संस्कृतपठनेन एव सम्भवम् – डॉ. चन्द्रभूषणत्रिपाठीवर्याः

संस्कृतपठनस्य प्रभावः अस्माकं विचारेषु संस्कारेषु च भवति

• विंशतिदिवसीया–आनलाईनसंस्कृतसम्भाषणकक्षाया: बौद्धिकसत्रं सम्पन्नम्

लखनऊ। उत्तरप्रदेशसंस्कृतसंस्थानपक्षतः सञ्चाल्यमाना संस्कृतसम्भाषणकक्षान्तर्गते विंशतिदिवसीया–आनलाईनसंस्कृतसम्भाषणकक्षायाः बौद्धिकसत्रं रविवासरे सम्पन्नम् । प्रत्येकस्मिन् मासे अस्याः कक्षायाः माध्यमेन सम्पूर्णदेशात् एव न अपितु विदेशात् अपि जनाः पञ्जीकरणं कृत्वा निःशुल्कं संस्कृतसम्भाषणस्य अभ्यासं कुर्वन्ति ।

कक्षायाः सञ्चालनं संस्थानस्य निदेशकः विनयश्रीवास्तववर्यस्य संरक्षणे सञ्चाल्यमानमस्ति । तेनोक्तम् यत् विश्वस्य सर्वासु भाषासु सर्वोत्कृष्टा संस्कृतभाषा कथनेन भारतीया: गौरवान्विता: भवन्ति । संस्कृतं केवलं भाषा एव न अपितु सर्वोत्तम जीवनशैल्या: पथप्रदर्शिकापि वर्तते ।

बौद्धिकसत्रस्य मुख्यवक्तृत्वेन हमीरपुरजनपदस्य जिलाधिकारी डा.चन्द्रभूषणत्रिपाठीवर्येण कथितम्- समाजे व्याप्तविसङ्गतिनाम् अपाकरणं संस्कृतपठनेनैव सम्भवम् । प्रत्येकः जनः येन केन प्रकारेण योजितः अस्ति अनया भाषया सह अतः वयं सर्वे मिलित्वा स्वकीयजीवने संस्कृतं आचरामः । अस्मिन् बौद्धिकसत्रे सञ्चालकत्वेन सत्यममिश्रः, अतिथेः परिचयं कारितवान् अंशुवर्यः, स्वागतभाषणम् ओमदत्तवर्येण कृतम्, स्वागतगीतम् छात्रः अमनपाण्डेयः रूपममहोदया च, अनुभवकथनम् ऊषा, सलोनी महोदयाोः कृतम् । संस्थानस्य प्रशिक्षिका सवितामौर्या कार्यक्रमे समागतानाम् अतिथिनाम् एवञ्च संस्थानस्याधिकारिणाम्, संयोजकानाम्, प्रशिक्षकाणां, सर्वेषां सर्वासां च धन्यवादं ज्ञापितवती ।आर्यनद्विवेदी महोदयेन शान्तिमन्त्रेण अस्य सत्रस्य समापनं कृतम् । अस्मिन् कार्यक्रमे संस्थानस्य वरिष्ठः प्रशासनिकाधिकारी श्रीमान् दिनेशवर्याः, शिक्षणप्रमुखः श्रीमान् सुधीष्ठमिश्रवर्याः, समन्वयकाः धीरजमैठाणीवर्याः, दिव्यरञ्जनवर्याः, राधाशर्मावर्याः च उपस्थिताः आसन् । अन्येषु प्रशिक्षकेषु राजनदुबेमहोदयः, गणेशमहोदयः, सचिनशर्मादयः उपस्थिताः आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button