उत्तराखण्ड

संगठनमन्त्रिणा श्रीगौरवशास्त्रिणा उत्तरकाश्यां
संस्कृतं किमर्थं इत्यस्मिन् विषये छात्रा: चान्ये सम्बोधिता:

उत्तरकाशीजनपदस्य प्रवासावसरे संस्कृतभारती-उत्तराखण्डस्य संगठनमन्त्रिणा रामचन्द्र-पीजी-विद्यालये एनसीसी इत्यस्मिन् कार्यक्रमे संस्कृतं किमर्थं इत्यस्मिन् विषये छात्रा: चान्ये सम्बोधिता: । संगठनमन्त्रिणा श्रीगौरवशास्त्रिणा कथितं यत्
भारतस्य प्रतिष्ठा संस्कृतेन च संस्कृत्या कथ्यते। देवभूमिः इति नाम देवानां भाषा च संस्कृतम्। संस्कारप्राप्त्यर्थं संस्कृतमेव।संस्कृते एव शान्तिः काम्यते । समस्तपृथिवी कुटुम्बम् उच्यते।लोकमङ्गलकामना संस्कृतभाषामात्रे इति भावः प्रदाति, अत्र माता देवता इति, पिता देवता इति, गुरुः देवता इति, अतिथिः देवता इति उच्यते।अद्य वैश्विकसंकटे सर्वे भारतं पश्यन्ति। उदाहरणं पश्यामः यत् युक्रेन-रूसयोः युद्धस्य परिणाम: अस्माकं पुरतः अस्ति। सर्वा: भाषाः संस्कृततः उत्पन्नाः, संस्कृतस्य व्याकरणं वैज्ञानिकं प्रसिद्धम् अस्ति।अद्यतनयुगे सरलसंस्कृतेन वदन् सर्वे जनाः संस्कृतं बहु सरलतया वक्तुं शक्नुवन्ति, यथा ते परस्परं हिन्दीभाषायां वार्तालापं कुर्वन्ति, तथैव वार्तालापं संस्कृतेनापि। सरलसंस्कृतसम्भाषणशिबिरद्वारा सर्वे संस्कृतभाषायां वक्तुं शक्नुवन्ति। सम्प्रति संस्कृतभारतीद्वारा कोटिशः जनाः संस्कृतभाषायां वदन्ति।विदेशेषु अपि संस्कृतभाषिणः जनाः सन्ति।
संस्कृतं अस्माकं व्यवहारे केनचित् रूपेण वा भारते अस्माकं पूर्वजेभ्य: विद्यते, संस्कृतिरूपेण वा जीवनरूपेण वा।
अतः अस्माभिः संस्कृतं स्वीक्रियताम् यतः अत्रत्य संस्कृतिः महान् संस्कृतं च अस्ति, तस्य सम्भाषणेन अनेकानां भाषाणां ज्ञानमपि प्राप्यते। आयुर्वेदात् सैन्यविज्ञानं यावत् तान्त्रिकयन्त्राणि यावत् याननिर्माणं अर्थशास्त्रं यावत् अनेके प्रसिद्धशास्त्राणि संस्कृते एव अभवन्, अस्य संस्कृतस्य कारणात् अद्य भारतं विश्वगुरुं प्रति गच्छति।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button