संस्कृत भारती

केरलेषु इरिञ्जालक्कुटायां “गीतामृतम् ” कार्यक्रम:।

केरलेषु इरिञ्जालक्कुटा चेम्मण्डग्रामे गीताशिक्षणकेन्द्रच्छात्राणां दिनद्वयस्य सङ्गमः प्राचलत् । गीतामृतं नाम कार्यक्रमेस्मिन् गीतासोपानद्वारा संस्कृतं पठन्तः शिक्षार्थिनः भागं स्वीकृतवन्तः। कार्यक्रमस्य उद्घाटनं विश्वसंस्कृतप्रतिष्ठानस्य पूर्वतनः प्रान्तीयोपाध्यक्षः अमृतभारती विद्यापीठस्य अध्यक्षः डॉ. एं .वि. नटेशः कृतवान्। संस्कृतभारत्याः प्रान्तसम्पर्कप्रमुखः डॉ. पि. के. शङ्करनारायणः अध्यक्षः आसीत्। सेवानिवृत्तः संस्कृताध्यापकः अजितन् वार्यर् आशंसाभाषणं कृतवान्। प्रशिक्षणप्रमुखः पि. आर्. शशी स्वागतं तथा श्रीमती श्रीजा कावनाट् कृतज्ञतां च कृतवन्तौ।
सम्भाषणसन्देशस्य सम्पादकः विद्वान् जनार्दन हेग्डे, संस्कृतभारत्याः अखिलभारतीयः सहप्रचारप्रमुखः श्रीरामः, दक्षिणक्षेत्रसंघटनमन्त्री सुवीशः , संस्कृतभारत्याः पूर्वतनः पूर्णकलिकः संस्कृतसेवकः डॉ. के. एन् .पद्मकुमारः च भगवद्गीताविषयान् उद्बोधितवन्तः। समारोपकार्यक्रमे प्रान्तीयाध्यक्षः पण्डितरत्नं डॉ. पि. के. माधवमहोदयः मुख्यभाषणं कृतवान्। श्री श्रीरामः, कोशाध्यक्षः संजीव् टि. सि. आशंसां च कृतवन्तौ। 40 शिक्षार्थिनः कार्यक्रमे अस्मिन् भागं स्वीकृतवन्तः।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button