संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

एककोटिसहस्रेण उन्नयनं भविष्यति परिषद् विद्यालयानाम्

प्रत्येकस्मिन् विकासखण्डे एकं परिषद् विद्यालयं मुख्यमन्त्री अभ्युदयसमष्टिविद्यालये उन्नयनं करिष्यति योगी सर्वकारः

• राज्यसर्वकारेण अस्मिन् विषये एकसहस्रकोटिरूप्यकाणां कृतम् अस्ति प्रावधानम्

• प्रथमकक्षातः अष्टमीकक्षापर्यन्तं पूर्वमेव सञ्चालितानाम् परिषद्विद्यालयानाम् उन्नयनार्थं निर्मिता कार्ययोजना

• आगामिषु त्रिषुवर्षेषु प्रदेशे प्रायः चतुर्सहस्राणि परिषद्विद्यालयाः उन्नयनं कर्तुं लक्ष्यम्

• प्रथमचरणस्य सप्तशततः अधिकानां विद्यालयानां भविष्यति उन्नयनं, प्रत्येकस्मिन् विद्यालये सार्धचतुर्सहस्रछात्राणां भविष्यति पात्रता

• प्रत्येकस्मिन् समष्टिविद्यालये प्रायः 1.42कोटिरूप्यकैः भविष्यति सुविधानाम् उन्नयनम्

• राष्ट्रियशिक्षानीत्यानुसारं छात्राणां समावेशी कौशलविकासः च भविष्यति मुख्यं लक्ष्यं

लखनऊ। योगी आदित्यनाथसर्वकारेण सद्यः प्रस्तुते सामान्य–अर्थसङ्कल्पपत्रे 2023-24 मध्ये शिक्षाविभागाय द्विसहस्रकोटिरूप्यकाणां प्रावधानं कृतम् अस्ति । अस्मिन् मूलशिक्षाविभागस्य अन्तर्गतं चालितानां परिषद्विद्यालयानां कृते प्रत्येकस्मिन् विकासखण्डे (आहत्य अशीत्यधिकाष्टशतं) मुख्यमन्त्री अभ्युदयसमष्टिविद्यालये एकसहस्रकोटिरूप्यकैः विकासः भविष्यति । योगिसर्वकारस्य अभिप्रायः अस्ति यत् आगामिषु त्रिषुवर्षेषु प्रायः चतुर्सहस्रानां (प्रत्येक विकासखण्डे चत्वारः–पञ्च) अभ्युदयसमष्टिविद्यालयानाम् विकासः करणीयः । अस्य कृते प्राथमिकशिक्षाविभागेन कार्ययोजना निर्मिता, यस्मिन् विषये अग्रे प्रक्रिया क्रियते । एतान् विद्यालयान् पूर्वप्राथमिककक्षातः अष्टमीकक्षापर्यन्तं उन्नयनं कृत्वा योगीसर्वकारः न केवलं प्रत्येकं छात्राय गुणवत्तापूर्णशिक्षां प्रदातुं प्रयतते, अपितु तेभ्यः विद्यालये सर्वाः सुविधाः प्रदातुं लक्ष्यं करोति, येषां साहाय्येन तेषां कौशलस्य विकासः कर्तुं शक्यते अपि च ते उत्तमं भविष्यं प्रति गन्तुं शक्नुवन्ति ।

“प्रथमचरणे चतुर्धिकसप्तशतानां परिषद्विद्यालयानां भविष्यति उन्नयनम्”

महानिदेशकस्य विद्यालयशिक्षायाः विजयकिरणस्य आनन्दस्य अनुसारं अर्तसङ्कल्पपत्रे कृतस्य अस्य प्रावधानस्य अन्तर्गतं प्राथमिकशिक्षाविभागस्य माध्यमेन प्रत्येकस्मात् ग्रामीणविकासखण्डात् स्थानस्य उपलब्धतां, व्यावहारिकतां, प्रत्येकस्मात् अधिकतमसामाजिकलाभं च उद्दिश्य प्रत्येकस्मात् विकासखण्डात् एकस्य समष्टिविद्यालयस्य पारदर्शितापूर्णं चयनं भविष्यति । एतेषां विद्यालयानाम् उन्नयनं निर्धारितमानकानुसारं करिष्यते, मुख्यमन्त्री अभ्युदयसमष्टिविद्यालयस्य उपाधिः च दीयते । प्रत्येकस्मिन् समष्टिविद्यालये प्रायः 1.42कोटिरूप्यकैः आधारभूतसंरचनासुविधानां उन्नयनस्य प्रावधानं कृतम् । एवं प्रकारेण प्रथमचरणे प्राथमिकशिक्षाविभागाय आवंटितस्य अर्थसङ्कल्पस्य एकसहस्रकोटिरूप्यकैः प्रायाः चतुर्धिकसप्तशतानां परिषद् विद्यालयानां मुख्यमन्त्री अभ्युदयसमष्टिविद्यालयरूपेण उन्नयनं भविष्यति ।

“प्रत्येकस्मिन् विद्यालये पञ्चाशताधिकचतुर्शताः छात्र–छात्राश्च भविष्यन्ति”

मुख्यमन्त्री अभ्युदयसमष्टिविद्यालयस्य अन्तर्गतं पूर्वमेव प्रचलितानां परिषद् समष्टिविद्यालयेषू आधुनिकसुविधाभिः सह श्रेणीबद्धाधिगमनस्य अवधारणायाः आधारेण उन्नयनं करिष्यते । एताः विद्यालयाः राष्ट्रियशिक्षानीति-2020 अनुसारं बालकानां समावेशी कौशलविकासाय विशेषतया प्रोत्साहनं करिष्यते । एतेषां विद्यालयानां उन्नयनानन्तरं पूर्वप्राथमिककक्षातः अष्टमीकक्षां यावत् प्रतिवर्गं पृथक् पृथक् कक्षायाः व्यवस्था सुनिश्चिता भविष्यति । प्रत्येकं विद्यालयं प्रायः पञ्चाशताधिकचतुर्शतानां छात्राणां पात्रतया विकसितं करिष्यते । एतेषु विद्यालयेषु अध्ययनं कुर्वतां छात्राणां सर्वतोन्मुखी बौद्धिकविकासः उच्चगुणवत्तायुक्तशिक्षायाः उत्तमशैक्षिकवातावरणस्य च कृते सज्जः भविष्यति, यत्र जलस्वच्छतासम्बद्धानां आधारभूतसंरचनानां सुविधानां अपि उन्नयनं भविष्यति, तथैव पूर्वमेव निर्मिताः सर्वाः सुविधाः कक्षाः च सुदृढाः भविष्यन्ति।

“एताभिः सुविधाभिः सुसज्जिताः भविष्यन्ति मुख्यमन्त्री अभ्युदयसमष्टिविद्यालयाः”

1. पञ्चकक्षयुक्ताः अभ्युदयखण्डः, यत्र भविष्यन्ति –
• एकत्र पुस्तकानि पठितुं समर्पितं समृद्धं च बालमैत्रीपूर्णं चलसामग्रीयुक्तं पुस्तकालयम्
• भाषाप्रयोगशालायाः सुविधया सह सङ्गणकप्रयोगशाला।
• रोबोटिक्सशिक्षणं, विज्ञानं, गणितं चेत्यादिभिः विषयेभ्यः मॉड्यूलरसमष्टिप्रयोगशाला ।
• डिजिटलशिक्षणार्थं अन्तरक्रियाशीलप्रदर्शनफलकैः सह आभासीसम्पर्कः विशिष्टवर्गः च
• शौचालयस्य सुविधायुक्तः कर्मचारीकक्षः।
2. बालवाटिका
3. पोषणवाटिका
4. वाई–फाई–ऑनलाइन–सीसीटीवी–सर्वेक्षणम्
5. बालानुकूल चलसामग्री अपि च मॉड्यूलरडेस्क-बेंच
6. सुरक्षाकर्मिणां स्वच्छताकर्मिणां च नियुक्तिः ।
7. क्रीडायाः प्राङ्गणम् अपि च मुक्तव्यायामशालया सह बहुविधक्रियाकलापभवनम् ।
8. सौरपटलस्य वर्षाजलसङ्ग्रहणमात्रकस्य च स्थापना ।
9. आरओ–पारजम्बुजलसंयंत्रं, मध्याह्नभोजनस्य पाकशाला भोजनालयः च, प्रक्षालनक्षेत्रं, बहुविधं हस्तप्रक्षालनमात्रकस्य च एकीकृतव्यवस्था ।
10. आधुनिक–अग्निशमनयन्त्रम् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button