संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
लखनऊ

“गृहे-गृहे संस्कृतम्” इति योजनान्तर्गतं सरलसंस्कृतसम्भाषण-शिक्षकप्रशिक्षणम्”

नूतनः विष्णुः रेग्मी(प्रशिक्षकः)
उत्तर-प्रदेशसंस्कृतसंस्थानम्
।लखनऊ। लखनऊस्थे निरालानगरे “जे.सी. गेस्ट हाउस” इत्यस्य श्रद्धाभवनस्य मुख्यसभागारे १७-०३-२०२३ तमे दिनाङ्के मध्याह्ने १२ः०० वादने “गृहे-गृहे संस्कृतम्” इति योजनान्तर्गत-आवासीय-सप्तदिवसीय-सरलसंस्कृतसम्भाषणशिक्षकप्रशिक्षणवर्गस्य सुमद्घाटनसमारोहस्य आयोजनमं जातम्।प्रशिक्षणस्यावधिः १६-०३-२०२३ तः २२-०३-२०२३ पर्यन्तम् आसीत्।आदौ
अतिथीनाम् द्वारात् आनयनम्
समन्त्रैः पुष्पगुच्छप्रदानेन कृतम्।
समारोहस्य अध्यक्षः केन्द्रियसंस्कृतविश्वविद्यालयस्य भोपालपरिसरतः प्रो.आजादमिश्रः आसीत् ।तत्र मुख्यातिथित्वेन प्रमुखसचिवः ,यूपीसंस्कृतसंस्थानस्य कार्यकारि-अध्यक्षः जितेन्द्रकुमारः आसीत्।मंचसंचालकः श्रीः टीकारामपाण्डेयः आसीत् । मञ्चे संस्थानस्य निदेशकः विनयश्रीवास्तवः,प्रशिक्षणप्रमुखः श्रीः सुधिष्ठकुमारमिश्रश्च आसीत्। सर्वादौ अतिथिभिः दीपप्रज्वालनं शारदार्चनं च कृतम्।प्रशिक्षुभिः वैदिकमंगलाचरणं कृतम्।तत्र धनञ्जयसागरमहोदयेन लौकिकं मंगलाचरणम् विहितम्।ततः परं निदेशकमहोदयः सर्वेषां स्वागतं राङ्कव-पुष्पमालाभ्याम् अकरोत्। ततः सः संस्थानस्य कार्यविवरणपुरस्सरं स्वागतभाषणं कृतवान् ।तेनोक्तं यत् ३१ दिसम्बर १९७६ तः एव उत्तरप्रदेशसंस्कृतसंस्थानं संस्कृतस्य कृते बहूनि कार्याणि करोति।संस्कृतसंस्थानस्य अनलाईसंस्कृतभाषाशिक्षणकक्षायाम् एतावता ८०,१६० छात्राः देशतः विदेशतः अपि पठित्वा लाभान्विताः।गुरुकुलेषु,प्राथमिकविद्यालयेषु,D.I.E.T. इत्यादिषु च संस्थानेन संस्कृतं पाठितम् ।संस्थानं शीघ्रमेव “SNASKRIT PORTAL”इत्यस्यापि आरम्भं कुर्वत् अस्ति।यत्र संस्कृतज्यौतिषपौरोहित्यादिनिमित्तं संस्कृतज्ञाः, ज्यौतिषज्ञाः पुरोहिताश्च नियोजयिष्यन्ते।ते तत्र जनानां सहायतार्थं कार्यं करिष्यन्ति।ततः प्रशिक्षणप्रमुखः एतस्य वर्गस्य प्रास्ताविकमश्रावयत्। तत्र सः उक्तवान् यत् सम्पूर्णे उत्तरप्रदेशे एषा योजना संस्कृतस्य प्रसारणे मूलभूता अस्ति ।यतो हि ये संस्कृतं तावत् न जानन्ति तेषां कृते एषा योजना बहु उपकारिणी अस्ति ।ततः परं मुख्यातिथेः जितेन्द्रकुमारस्य उद्बोधनं जातम् ।तत्र तेन विविधैः माध्यमैः सर्वे प्रेरिताः। सः उक्तवान् यत् संस्थानद्वारा शीघ्रमेव दूरदर्शनेषु “SANSKRIT REALITY SHOW “ इत्यस्यापि प्रसारणं शीघ्रं भविष्यति ।तत्कृते सः तस्य रूपरेखानिमित्तं प्रशिक्षून् एकं TASK अपि दत्तवान्।प्रमुखसचिवमहोदयः एव “गृहे गृहे संस्कृतम् “ इति योजनायाः समारम्भे मूलभूतः आसीत्।तेनैव योजनायाः नामकरणमपि कृतमासीत्।
ततः परं प्रो.आज़ाद
मि़श्रः स्वाध्यक्षीये भाषणे उक्तवान् यत् यथा कार्यं उत्तरप्रदेशे इदं संस्थानं करोति तथा भारते कस्यापि राज्यस्य अकादमी(संस्थानानि)न कृतवन्तः।अनन्तरं संस्थानस्य अधिकारी जगदानन्दझामहोदयः धन्यवादज्ञापनं कृतवान्।अन्ते प्रशिक्षिका मीनाकुमारी शान्तिमन्त्रेण समुद्घाटनसमरोहस्य समापनं कारितवती। अन्ते षोडशानाम् प्रशिक्षकाणाम् अपि
मालाराङ्कवप्रदानेन संस्थानाधिकारिणः सम्माननं कृतवन्तः।तत्र संस्थानस्य अन्ये कर्मचारिणः अपि आसन् ।९७ प्रशिक्षवः तत्र समुपस्थिताः आसन्।
२२-०३-२०२३ तमे दिनांके वर्गस्यास्य समापपनसत्रं भविष्यति ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button