गुजरात

गुजराती-विषयमालक्ष्य व्याख्यानमनुष्ठितम्

गुजराती-विषयमालक्ष्य व्याख्यानमनुष्ठितम्

गुजरातीविषयकं विशिष्टं व्याख्यानम्।
श्रीसोमनाथसंस्कृतविश्वविद्यालयस्य शैक्षणिकभवने १७-०३-२०२३ तमे अह्नि शुक्रवासरे ११ वादने सभाखण्डे गुजराती-विषयमालक्ष्य एकं छात्रहिकरमत्युत्तमं सरसं सरलं विशिष्टञ्च व्याख्यानमनुष्ठितमासीत्। व्याख्यानमिदं भारतीयपरम्परानुगुणं दीपप्रज्वालनेन मन्त्रोच्चारणेन च आरब्धमासीत्। ततः समुपस्थितानां महानुभावानां परिचयपुरस्सरं वाचिकं स्वागतं डॉ.प्रियाङ्कः ठाकरमहोदय अकरोत्। विशिष्टेऽस्मिन् व्याख्याने मञ्चासीनः अध्यक्षपदवाच्यः अस्माकं विश्वविद्यालयस्य आदृत्यः का.कुलपतिः प्रो.ललितकुमारपटेलमहोदयः आसीत्, मुख्यवक्त्री दक्षिणगुजरातस्य वीरनर्मदविश्वविद्यालयस्य गुजराती-विभागस्य अध्यक्षा प्रसिद्धा लेखिका, अनुवादिका, कवयित्री विदुषी च डॉ. शरीफा वीजलीवाळामदोदया दिष्ट्या सम्प्राप्ता आसीत्, विश्वविद्यालयसञ्चालितमहाविद्यालयस्य प्राचार्यः डॉ. नरेन्द्रकुमारपण्ड्यामहोदयः, व्याकरणविभागाध्यक्षः प्रो. विनोदकुमारझामहोदयः, डॉ.प्रियाङ्कठाकरमहोदयश्चासीत्। मुख्यवक्त्र्या डॉ. शरीफामहोदयया स्वीये उद्बोधने मातृभाषायाः रक्षणं पठनं सदैव करणीयम्, तत्साहित्यास्याध्ययनमपि करणीयम्, अभ्यासक्रमं विहाय अन्यविषयस्यापि अध्ययनं छात्रैः अध्यापकैश्च करणीयम्। एतादृशाः नैके उपदेशाः प्रदत्ताः आसान्। तैः समं संस्कृतभाषायाः महत्त्वमपि निगदितम्। तदनु आध्यक्षीये भाषणे अध्यक्षमहोदयेनापि उक्तं यत् संस्कृतभाषायाः नैपुण्ये सति जनः अन्यभाषासु निपुणः भवितुमहर्ति नात्र शङ्काकलङ्कावकाश इति। अन्ते सन्निहितानां सर्वेषां धन्यवादज्ञापनं प्रो. विनोदकुमारझामहोदयेन विहितम्। अस्य व्याख्यानस्य सञ्चालनं श्रीदिलीपः त्रिवेदी अकरोत्तथा चास्य संयोजनं एस.आर. एफ. शोधच्छात्रः श्रीदिलीपः त्रिवेदी डॉ.प्रियाङ्कठाकरमहोदय इत्येताभ्यां कृतमासीत्। अनेन व्याख्यानेन छात्राः गुजराती-विषयस्य महत्त्वम्, तत्साहित्यस्य समृद्धिञ्च ज्ञात्वा मातृभाषारक्षणे प्रेरिताः अभवन्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button