संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशलखनऊ

उत्तरप्रदेशसंस्कृतसंस्थानस्य तत्वावधाने बौद्धिकसत्रम् अद्य

सञ्चाल्यमाणसंस्कृतभाषाशिक्षणकक्ष्यां डा.अभिषेकपाण्डेयवर्य: सम्बोधयिष्यति

समये समये यथा संस्कृतप्रचारायप्रसाराय उत्तरप्रदेशस्य संस्कृतसंस्थानेन अन्तर्जालमाध्यमेन कक्षा सञ्चाल्यते तस्मिन्क्रमे एव उत्तरप्रदेशसंस्कृतसंस्थानस्य तत्वावधाने सञ्चाल्यमाणसंस्कृतभाषाशिक्षणकक्ष्याषु समवेतरूपेण बौद्धिकसत्रं जूनमासस्य 16/06/2023 तमे दिनाङ्के सायं 8:00 वादने समायोज्यते । अस्मिन्कार्यक्रमे अतिथिरूपेण
डॉ० अभिषेकपाण्डेय: विद्वत्परिषद्प्रमुख: गोरक्षप्रान्तस्य व्याकरणविभागाध्यक्ष: श्री गोरक्षनाथ-संस्कृत-विद्यापीठ- (स्नातकोत्तर-महाविद्यालय-)-गोरखनामन्दिरगोरखपुरत: वर्तते।
अस्या: सञ्चाल्यमाणकक्षाया: प्रशिक्षका: शशिकान्तः महोदयः, श्रीमान् दीनदयालः, श्रीमान् आचार्य दिवाकरमणि त्रिपाठी, श्रीमान् डॉ. सत्यप्रकाशः च सन्ति। संस्थानस्य सञ्चालितकक्षां प्रवेशं प्राप्तुं प्रवेशसूत्रम्https://meet.google.com/jdi-mxbh-vkf इति च समयः08.00 PM विद्यते । उद्घाटनावसरे विभिन्ना: जना: समाहूता: सन्ति संस्थानेन।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button