संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डहरिद्वार

संस्कृतं ब्रह्माण्डस्य भाषा च ज्ञानविज्ञानस्य भाषा विद्यते — ‘राज्यपाल:’

• उत्तराखण्डसंस्कृतविश्वविद्यालयस्य दीक्षान्तसमारोह: सम्पन्न:। • देवभूमौ ज्ञानस्य विविधशाखाः अधिकृत्य अन्तःशास्त्रीयम् अध्ययनं छात्रैः विधेयम् - 'कुलपति: आचार्यनिवासवरखेडीवर्य:'

उत्तराखण्ड:। उत्तराखण्डसंस्कृतविश्वविद्यालयस्य दशमः दीक्षान्तसमारोहः हरिद्वारे सुसम्पन्नः जात: । समारोहे भाषामाणाः उत्तराखण्डराज्यस्य महामहिमराज्यपालाः अवोचन् यत् देवभूमौ संस्कृतविकासपरककार्याणि अवरोद्धुं न वयम् अवसरं कल्पयामः। तै: प्रोक्तं यत् संस्कृतं ब्रह्माण्डस्य भाषा च ज्ञानविज्ञानस्य भाषा विद्यते। मुख्यातिथिरूपेण भाषामाणाः केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलपतयः आचार्या: श्रीनिवासवरखेडीवर्याः अवोचन् यत् देवभूमौ ज्ञानस्य विविधशाखाः अधिकृत्य अन्तःशास्त्रीयम् अध्ययनं छात्रैः विधेयम् इति। कृषि – प्रविधि – प्रबन्धनादिविद्या: शास्त्रविद्याध्ययनरतैः सर्वैः अध्येतव्याः इति। उत्तराखण्डसंस्कृतविश्वविद्यालयस्य विकासाय विद्यमानान् विकासपरोपयान् ते सोदाहरणं प्रास्तुवन् ।

*आचार्यबालकृष्णवर्या: पद्मश्रीपूनमसूरीमहोदया: च विद्यावाचस्पतिः इति मानदोपाधिना सत्कृताः *

उत्तराखण्डसंस्कृतविश्वविद्यालयस्य कुलपति: आचार्य: दिनेशचन्द्रशास्त्रीमहाभाग: विश्वविद्यालयस्य भविष्ययोजनाः काः काः इति सविस्तरं न्यरूपयन्। अन्तर्जालाश्रिता देवभूमि नामिका विविधविद्यानुसन्धानपरा शोधपत्रिका अपि सन्दर्भेऽस्मिन् लोकार्पिता । दीक्षान्तसमारोहे पतञ्जलिविश्वविद्यालयस्य कुलपतयः योगायुर्वेदयोः संरक्षणदक्षाः आचार्य बालकृष्ण महाभागाः तथैव शैक्षिकक्षेत्रे कृतपरिश्रमाः पद्मश्री पूनम सूरी महोदयाश्च विद्यावाचस्पतिः इति मानदोपाधिना सत्कृताः । विविधविश्वविद्यालयानां कुलपतयः, विशिष्टातिथयः अत्र साक्षिणः अभवन्। विविधेषु शोधकार्येषु च कृतपरिश्रमेभ्यः छात्रेभ्यः उपाधयः स्वर्णपदकानि च समारोहे विशेषतः समर्पितानि। आचार्य: शैलेशकुमारतिवारी अस्य दीक्षान्तसमारोहस्य सञ्चालनमकरोत् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button