संस्कृत भारतीहरियाणा

संस्कृतभारतीहरियाणाद्वारा गीतापाठकार्यक्रमः

अजयकुमार-आर्य:। संस्कृतभारती, हरियाणा (न्यासः) द्वारा पञ्चकूलाजनपदस्य, सेक्टर-11, गीतामन्दिरे 11.12.2024 दिनाङ्के गीता-जयन्ती-महोत्सवे गीतापाठकार्यक्रमः अभवत्।
कार्यक्रमे संस्कृतभारत्याः हरियाणाप्रान्तस्य पञ्चकूलाजनपदस्य कार्यकारणी-सदस्यः श्रीमान् रामदीयाशास्त्रीमहोदयः गीतायाः उपयोगिता तथा च आवश्यकतायाः विषये व्याख्यानम् अकरोत्। गीतापाठः जिलाविस्तारकः देवाँशकृष्णः कृतवान्। कार्यक्रमे जिलासंयोजकः डॉ. राजवीरकौशिकः संस्कृतभारत्याः परिचयं दत्तवान्। कार्यक्रमेमन्दिरस्य आचार्यगणः, संस्कृतमहाविद्यालयस्य छात्राः, सामाजिकाश्च उपस्थिताः आसन्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button