हरियाणा

याज्ञवल्क्यस्मृति एवं भारतीय-संविधानम् : एकमध्ययनं (व्यवहाराध्यायस्य विशेषसंदर्भे)” पुस्तकस्य विमोचनं

प्रेषक:-अजयकुमार: । अद्य हरियाणाकेन्द्रीयविश्वविद्यालयस्य संस्कृतविभागस्य शोधछात्रा मनीषा एवं शोध-निर्देशिका डॉ० सुमनरानी द्वारा लिखित ” याज्ञवल्क्यस्मृति एवं भारतीय-संविधानम् : एकमध्ययनं (व्यवहाराध्यायस्य विशेषसंदर्भे)” पुस्तकस्य विमोचनं हरियाणायाःकेन्द्रियविश्वविद्यालयस्य माननीयः कुलपतिः प्रो० टंकेश्वर कुमार वर्यस्य करकमलाभ्यां जातम्। कुलपतिः महोदयेन मनीषा एवं डा० सुमनरानीं लेखनकार्यस्य कृते शुभकामनां प्रयच्छत् ।
अस्मिन् अवसरे शोध-निर्देशिका डॉ० सुमनेन
उक्तं यत् एतत् पुस्तकं भारतीयज्ञानपरम्परायां प्राचीनन्यायप्रणाल्या: सिद्धान्तान् प्रकाशने मार्गस्तम्भवत् भूमिकां निर्वक्ष्यति । विमोचनस्य अस्मिन् अवसरे संस्कृतविभागाध्यक्षः प्रो० पायलचन्देलवर्यया अपि लेखिकाभ्यां शुभाशयं दत्तवती। विभागस्य अध्याप‌काः डॉ० देवेन्द्रसिंहः विभागप्रभारी, डॉ० कृष्णकुमारः, डॉ० अर्चना, सुमितशर्मन्, डॉ० पवित्रा, प्रो० नन्दकिशोरः, प्रो० प्रमोदकुमारः शिक्षकशिक्षाविभागाध्यक्षः उपस्थिताः आसन्। सर्वे लेखिकाभ्यां लिखित भारतीयज्ञानपरम्परायाः सम्बंधितविषयोपरि पुस्तकस्य कृते भूरिशः साधुवादं दत्तवन्तः।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button