संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

राजकीयस्नातकोत्तरमहाविद्यालयकोटद्वारस्यसंस्कृतविभागेन समाचरित: संस्कृतसप्ताह:

✓स्पर्धा: संस्कृतभाषाप्रचारे आवश्यका:- 'प्राचार्या जानकीपंवार:' ।। ✓संस्कृतभाषारचनया वैज्ञानिका: आश्चर्यचकिता: -'डा.अरुणिमा'।। ।।✓भित्त्तिचित्रप्रस्तरप्रतियोगितायां डिम्पलः प्रथमः, सुहानी द्वितीयः, नीलम स्नातिका प्रथमसत्रस्य तृतीयः स्थानं प्राप्तवत्य:। संस्कृत-अन्ताक्षरी-प्रतियोगितायां दीक्षा कुंवरः प्रथमं, डिम्पल् द्वितीयं, कुमारी प्रिया तृतीयस्थानं प्राप्तवत्य: । संस्कृतबहुविषयनिबन्धप्रतियोगिता तथा समापनसमारोहः २ सितम्बर् २०२३ दिनाङ्के आयोजितोभवत् । अस्यां स्पर्धायां बहवः प्रतिभागिनः उत्साहेन भागं गृहीतवन्तः । यस्मिन् अनुष्का रावतः प्रथमं, अजली द्वितीयं, नीलम: तृतीयस्थानं प्राप्तवत्य: ।।

।कोटद्वारं । संस्कृतविभागस्य तथा IQAC इत्यस्य आश्रयेण तथा च प्राचार्याया: जानकीपंवारवर्याया: निर्देशनेन कोटद्वारस्य राजकीयस्नातकोत्तरमहाविद्यालये संस्कृतसप्ताहस्य उत्सवः महता उत्साहेन आयोजितः । यस्मिन् विविधाः प्रतियोगिताः आयोजिताः आसन्। ३० दिसम्बर दिनाङ्के भित्त्तिचित्रप्रस्तरप्रतियोगितायाः आयोजनं कृतम् यस्मिन् छात्राः भारतीयसंस्कृतेः पर्यावरणस्य च आधारेण स्वस्य चित्रं प्रस्तुतवन्तः।अस्यां प्रतियोगितायां डिम्पलः प्रथमः, सुहानी द्वितीयः, नीलम स्नातिका प्रथमसत्रस्य तृतीयः स्थानं प्राप्तवत्य:।

२०२३ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १ दिनाङ्के संस्कृत-अन्ताक्षरी-प्रतियोगितायाः आयोजनं कृतम्। यस्मिन् संस्कृत-श्लोकानां शब्दानां च गायनं कोशात् गृहीतम्, अनेन स्पर्धा अतीव रोचकं जातम् । अस्मिन् दीक्षा कुंवरः प्रथमं, डिम्पल् द्वितीयं, कुमारी प्रिया तृतीयस्थानं प्राप्तवत्य: । संस्कृतबहुविषयनिबन्धप्रतियोगिता तथा समापनसमारोहः २ सितम्बर् २०२३ दिनाङ्के आयोजितोभवत् । अस्यां स्पर्धायां बहवः प्रतिभागिनः उत्साहेन भागं गृहीतवन्तः । यस्मिन् अनुष्का रावतः प्रथमं, अजली द्वितीयं, नीलम: तृतीयस्थानं प्राप्तवत्य: ।

संस्कृतसप्ताहोत्सवस्य अवसरे महाविद्यालयस्य प्राचार्या प्राचार्या जानकीपंवारवर्या स्वसम्बोधने एताः स्पर्धा: संस्कृतभाषाप्रचारे आवश्यका:, प्रतियोगिछात्राणां कृते विषयं रोचकं करणं च महत्त्वपूर्णं इति वर्णितवती तथा च प्रतियोगितापरीक्षासु संस्कृतसाहित्यस्य भूमिकायाः ​​विषये अपि सूचनां दत्तवती

कार्यक्रमसमन्वयिका डा.अरुणिमाद्वरा स्ववक्तव्ये कथितं यत् एताभि: प्रतियोगिताभि: विद्यार्थिन: संस्कृतवाचने उच्चारणसामर्थ्यं प्राप्स्यन्ति । प्राचीन-ऋषिभि: अनया भाषया एतादृशा: रचना: कृता: येन वैज्ञानिका: अपि आश्चर्यचकिता: अभवन् । अस्मिन् अवसरे डॉ. रोशनी असवालवर्यया इत्यनया उक्तं यत् प्रत्येकस्य विषयस्य ज्ञानं निरन्तर-अध्ययनेन एव प्राप्तुं शक्यते । डॉ. प्रियम-अग्रवालवर्या अनेकैः उदाहरणैः सह संस्कृतभाषायाः प्रासंगिकतां व्याख्यातवती। डॉ. आशा देवी, डॉ. सीमा कुमारी, डॉ. कपिलदेवथपलियाल: डॉ. पूनमगैरोला इत्यादीनां कार्यक्रमे गरिमामयी उपस्थिति: आसीत् ।

✓ महाविद्यालयेन वृक्षारोपणेन संस्कृतोत्सवस्य प्रारम्भ: कृत:✓

कोटद्वारस्य राजकीयस्नातकोत्तरमहाविद्यालये
संस्कृतविभागस्य I.Q.A.C.विभागस्य च संयुक्ताश्रयेण वृक्षारोपणकार्यक्रमेण संस्कृतसप्ताहस्य उत्सवस्य प्रथमदिवसस्य आरम्भः अभवत्। कार्यक्रमस्य आरम्भः वृक्षरोपणेन अभवत् । अस्मिन् अवसरे महाविद्यालयस्य प्राचार्यया जानकीपंवारद्वारा प्रोक्तं यत् सम्पूर्णे विश्वे संस्कृतसप्ताहः आचर्यते।सप्तदिवसीयदीर्घकार्यक्रमे विभिन्नस्थानेषु संस्कृतक्रियाकलापानाम् आयोजनं क्रियते। स्थाने स्थाने “जयतु भारतं जयतु संस्कृतम्” इति जयघोष: गुञ्जायमान: भवति।

अस्मिन् अवसरे डा. अरुणिमाद्वारा कथितं यत् वैदिक-ऋषयः वृक्षान् पृथिवीसन्तुलने आवश्यकान् इति मन्यन्ते, मातृपूजनीयाः इति च मन्यन्ते ।अस्मिन् क्रमे डॉ. रोशनी असवालः स्ववक्तव्ये संस्कृतम् अतीव प्राचीनभाषा इति उक्तवती । वैदिककालात् परं अधिकतमपर्यावरणसंरक्षणस्य भावनायाः सर्वे स्रोताः संस्कृते निहिताः सन्ति।अस्मिन् क्रमे डॉ.प्रियम-अग्रवालः संस्कृतसप्ताहसमारोहस्य प्रशंसाम् अकरोत्, संस्कृतस्य प्रचारार्थं च एतादृशाः कार्यक्रमाः निरन्तररूपेण आयोज्यन्ते इति उक्तवती, भविष्ये च एतादृशाः कार्यक्रमाः आयोजिताः भवेयुः, येन छात्राः अध्ययनं विहाय स्वसंस्कृत्या भाषायाश्च सह सम्बद्धाः भवेयुः।

कार्यक्रमारब्धेषु प्रथमदिवसे डॉ. अभिषेकगोयल:, डॉ. आदेशकुमार:, डॉ. विक्रमशाह:, डॉ. अजीतसिंह:, डॉ. सुशीलबहुगुणा, डॉ. भागवतरावत:, प्रमोदकुमार: च छात्रेषु कुमारी,हिमानी,प्रेरणा,अंजलि:,शीतल:,जयश्री,प्रिया,नीलम:तोमर:,सुहानी,चारू,खुशी,करीना,सानिया,आदिभिः शारीरिकश्रमेण महाविद्यालयं सुन्दरं स्वच्छं च कर्तुं सराहनीयः प्रयासः कृतः।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button