संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

‘निर्मलास्मृतिहिन्दीसाहित्य-रत्नसम्मानाय’ दिनेशचन्द्रपाठक:-“बशर:” चयनितोभवत्।

अखिलभारतीयरेडियो, दूरदर्शने च दिनेशचन्द्रपाठकस्य कृतीनाम् अपि प्रसारणम् जातम्

। उत्तराखण्डं। लेखक: कविश्च दिनेशचन्द्रपाठक-‘बशर:’ निर्मलास्मृतिसाहित्यिकसमितिहरियाणाद्वारा ‘निर्मलास्मृतिहिन्दीसाहित्यरत्नसम्मानाय’ चयनितोभवत् । दिनेशचन्द्रपाठकः पौडीगढ़वालस्य जयहरीखालस्य रा.इ.का.लैन्स्डाउन-नगरे सङ्गीतशिक्षकरूपेण कार्यं कुर्वन् अस्ति, छात्रजीवनात् एव सङ्गीत-साहित्य-निर्माणेन सह सक्रियरूपेण सम्बद्धः अस्ति अद्यावधि तस्य त्रीणि पुस्तकानि प्रकाशितानि अभवन् । तदतिरिक्तं तस्य लेखाः काव्याः च विभिन्नैः वृत्तपत्रैः, पत्रिकाभिः च प्रकाशिताः सन्ति ।

उत्तराखण्डस्य एकमात्रसंगीतशिक्षक: अस्मिन् सम्माने साहित्यिकरूपेण चयनितोभवत् । अनेन सम्मानेन विद्यालयेन जनपदेन सह राज्योपि गौरवान्वितोस्ति। अखिलभारतीयरेडियो, दूरदर्शने च दिनेशचन्द्रपाठकस्य कृतीनां प्रसारणं कुर्वन्तः सन्ति । एतदर्थं सः काले काले विद्यालयस्य छात्रेषु अपि साहित्यिककार्यक्रमाणाम् आयोजनं कुर्वन् अस्ति । दिनेशचन्द्रपाठकः यूट्यूब-आदि-सामाजिक-माध्यम-माध्यमेन साहित्यस्य, संगीतस्य च प्रचार-प्रसारणे निरन्तरं महत्त्वपूर्णां भूमिकां निर्वहति ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button