रामनगर-महाविद्यालये हर्षोल्लासेन समाचरितः एनसीसी दिवसः
सांस्कृतिक- कार्यक्रमाणामायोजनम् अभवत् भव्यं
वार्ताप्रेषकः- डॉ. मूलचन्द्रशुक्लः। रामनगरम्।पीएनजीराजकीय-स्नातकोत्तर-महाविद्यालय- रामनगरस्य एनसीसीद्वारा एनसीसीदिवसः हर्षोल्लासेन समाचरितः। एनसीसी 79 एवञ्च 24 यूके बटालियन् इत्यनयोः विभिन्नाः सांस्कृतिक-कार्यक्रमाः समायोजिताः। प्रभारी प्राचार्य प्रो.अनीता जोशी इत्यनया कार्यक्रमस्य आध्यक्ष्यं निर्व्यूढम्। अनया समस्त-एनसीसीविद्यार्थिभ्यः(कैडेट्स) एनसीसी-दिवसस्य वर्धापनानि प्रदाय तेषां/तासाञ्च समुज्ज्वलभविष्यस्य कामना अभिव्यक्ता। मुख्यातिथिः उत्तराखण्ड-विद्यालयशिक्षा- परिषदः सचिवः विनोद प्रसाद सिमल्टी वर्यः राष्ट्रनिर्माणे यूनां भूमिका इत्यस्मिन् विषये स्वविचारान् प्रकटयति। सः एनसीसी विद्यार्थीनां कृते (कैडेट्स) एनसीसी इत्यस्य लाभान् उद्गीर्य तेभ्यः राष्ट्रसेवायै च प्रेरयति। 79 बटालियन इत्यस्य एएनओ लेफ्टिनेंट (डॉ.)डी.एन. जोशी महोदयेन व्यक्तित्वविकासे एनसीसी इत्यस्य भूमिकाविषयिणी वार्ता विस्तीर्यते। 24 यूके बटालियन इत्यस्य एएनओ लेफ्टिनेंट (डॉ.) कृष्णा भारती महोदया एकता- अनुशासनयोर्धारणाय युवजनान् आह्वयति। सांस्कृतिककार्यक्रमेषु कवितापाठः,समूहनृत्यम्,एकल नृत्यम् इत्यादयः प्रस्तुताः।कैडेट आकांक्षा,दिव्या च एनसीसी-दिवसे स्वविचारान् व्यक्तीकुर्वन्त्यौ कवितापाठञ्च कृतवत्यौ। पूर्वछात्रा (कैडेट) रचना परिहारः राष्ट्रसेवायां तत्पराणां सैनिकानां जीवनोद्दिश्य स्वरचितकवितावाचनं कुरुते।एकलनृत्ये ममता नेगी सचिनभारद्वाजः च लोकनृत्यं प्रस्तुतवन्तौ।समूहनृत्ये आकाशः,हर्ष कुमारः, अरमानः,तनिष्का ,आशा, नेहा,राशि इति विद्यार्थिनः लोकसंस्कृतेः वातावरणं निर्माय दर्शकान् मन्त्रमुग्धवत् अकुर्वन्। तत्रैव भावना मेहरा,सिमरन, भावना,गायत्री,शीतलः,खुशी च इत्येसां प्रस्तुतयः करतलध्वनिना पुरस्कृताः।अस्मिन्नवसरे विद्यार्थिनः (कैडेट्स) प्राचार्येण मुख्यातिथिना च सम्मानिताः। तत्र एनसीसी स्थापनादिवसोपलक्ष्ये रक्तदानकर्तारः आकाश कुमारः, कुनाल सिंह सैनी,करन कोहली चेति त्रयः छात्राः प्रमाणपत्रपुरस्सरं सम्मानिताः। नमामि गंगे इत्यत्र स्वविशेषावदानकर्तारः छात्राः सुमितः,पारूलः,हिमांशुः मुकेश रावतः च एते प्रमाणपत्रादीनि प्रदाय सम्मान्यन्ते। कार्यक्रमे शोधाधिकारी मनीष सुयालः, डॉ.अरूणा पाण्डेया,विजयसिंहः, प्रकाशचन्द्रः,मदनभारती इत्यादयश्च उपस्थिता आसन् ।सक्षम चौहानः, श्रेया रावतः, ज्योति सती, सुमितः,खुशी, ज्योतिः,सूरजः,मनोजः,महकः,आशुः ज्योतिराणा इत्यादयश्च विशेषसाहाय्यमकुर्वन्। कार्यक्रमस्य सञ्चालनम् एनसीसी (कैडेट) तनुजा जोशी इत्यनया विहितम्।*