प्राचार्य: प्रो.एम.सी.पाण्डे “श्री-के-एस-अय्यरसम्मानं” च डॉ.दीपकखाती “वाणिज्यगौरवसम्मानं” प्राप्तवन्तौ
महाविद्यालयेन प्राप्तं गौरवं
नैनीतालजनपदे रामनगरमहाविद्यालयस्य कृते विशिष्टदिवस: गौरवमय: आसीत् यस्मिन्दिवसे उत्तर-प्रदेशस्थे पीलीभीतस्थाने उपाधि-महाविद्यालये रामनगरस्थ-पी-एन-जी- राजकीय- स्नातकोत्तर-महाविद्यालयस्य प्राचार्य: प्रो.एम.सी.पाण्डे श्री-के-एस-अय्यरसम्मानं च वाणिज्यसंकायस्य सहायकप्राध्यापक: डॉ.दीपकखाती वाणिज्यगौरवसम्मानं प्राप्तवन्तौ । उभाभ्यामपि सम्मानमिदम् उत्तरप्रदेशस्य पीलीभीतनगरस्थस्य वाणिज्य-सङ्काय-उपाधि- महाविद्यालयद्वारा द्विदिवसीय- अन्ताराष्ट्रियसङ्गोष्ठ्याम् अक्टूबरमासस्य पञ्चविंशतिदिनाङ्के प्रदत्तम् ।
अस्मिन् समारोहे अतिविशिष्टातिथिरूपेण प्राचार्यमहोदय: अवोचत् यत् अहम् अनेन सम्मानव्याजेन इतोप्यधिकमुत्कृष्टकार्यकरणाय उत्साहितो भविष्यामि। वाणिज्यविषये शोधार्थम् अध्यापनार्थं विशिष्टावदानार्थञ्च उक्तसम्मानं प्राप्तवन्तौ । उपलब्धे: प्राप्तये प्रो.एस.एस. मोर्यः, डा. मूलचन्द्रशुक्लः , डा. डी. एन. जोशी इत्यादयः प्राचार्याय च डॉ.खातीवर्याय समस्त- महाविद्यालय-परिवारेण सह शुभकामनां वर्धापनानि च दत्तवन्त: ।