संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
पंजाबसंस्कृत भारती

पटियालाजनपदस्य भादसोंनगरे संस्कृतस्य प्रचारार्थं सम्पर्क-अभियानं सम्पन्नम्

पञ्जाबप्रान्ते संस्कृतस्य प्रचारार्थं संस्कृतभारतीपटियालाजनपदस्य मन्त्री श्री गगनदीपपाठकेन भादसोंखण्डे सम्पर्क-अभियानं कृतम् । अस्मिन् सम्पर्क-अभियाने द्वयोः विद्यालययोः प्राचार्यैः सह सम्पर्कः कृतः ।सर्वकारी उच्चतं विद्यालयस्य प्राचार्येन
श्रीप्रीतिन्दरघईमहोदयेन सह संस्कृतविषये चर्चा अभवत्। सः विद्यालये संस्कृतसंभाषणशिबिरस्य आयोजने विशेषरुचिं दर्शितवान् , विद्यालये शीघ्रमेव संस्कृतसम्भाषणशिबिरस्य आयोजनं भविष्यति। एतदतिरिक्तं नगरस्य अन्य विद्यालये यंग-फॉर्मर-पब्लिकविद्यालये अपि प्रवासः अभवत् । तत्रापि संस्कृतसम्भाषणशिबिरस्य विषये चर्चा अभवत् । भादसोंगोशालायाः अध्यक्षः श्री अमितकोहलीमहोदयेन सह अपि मेलनं अभवत्। सः गौशालायां गीताकेन्द्रस्य आरम्भार्थं स्वस्य सहमतिम् अददात्, शीघ्रमेव गौशालायां गीतकेन्द्रस्य आरम्भः भविष्यति । तदनन्तरं नगरे बहूनां जनाभिः सह संस्कृतभारतीसङ्गठनविषये तस्य कार्यविषये च चर्चा अभवत् । अस्मिन् प्रवाससमये नगरविस्तारकः श्री अरविन्दः अपि आसीत् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button