संस्कृतसम्भाषणशिबिरस्य समापनं जातम्
प्रेषक:-अजयकुमार:।रविवासरे संस्कृतभारतीपंजाब-श्रीहरिहरमन्दिरकमेटीत्ययोः संयुक्ततत्त्वावधाने आयोजितस्य संस्कृतसंभाषणशिबिरस्य समापनं जातम्। अस्मिन् कार्यक्रमे मुख्यातिथिरूपेण माननीयः शिवमहोदयः समागतः। महोदयेन ‘संस्कृतं किमर्थम् आवश्यकम्’ विषयमधिकृत्य सम्बोधनं जातम्। अस्मिन् कार्यक्रमे संस्कृतभारती-नाभानगरसंयोजकः मुख्य-वक्तृरूपेण उपस्थिताः। स्वसंबोधने संयोजकमहोदयेन संस्कृतभाषायाः महत्त्वं, वर्तमानकाले संस्कृतभाषायाः उपयोगितायाः विषये विस्तरेण उक्तम्। कार्यक्रमस्य अध्यक्षः श्रीहरिहरमन्दिरस्य अर्चकः आशीषमहोदयः आसीत्। नाभानगरस्य व्यवस्थाप्रमुखेन माननीयेन अनिलमहोदयेन योग-विषये निजविचाराः प्रस्तुताः। राष्ट्रियस्वयंसेवकसंघस्य पटियालाविभागस्य पर्यावरणसंयोजकमहोदयेन संस्कृतमाध्यमेन शास्त्रपाठम् कृतं पुनः तेन आगतानाम् अतिथिनां, शिबिरशिक्षकस्य मनीषमहोदयस्य च धन्यवादं कृतम् ।
क्रार्यक्रमे प्रतिभागिनः संस्कृतभाषायां गीतगायनं, श्लोकोच्चारणं, संस्कृतभाषायां स्वपरिचयम्, शिबिरपाठनादीनां प्रस्तुतीः दत्तवन्तः। अन्ते सर्वे प्रतिभागिनः श्रीमद्भागवतगीतागीता:, सुपिष्टकानि, लेखन्यः च प्राप्तवन्तः। कार्यक्रमस्थले संस्कृतविज्ञानप्रदर्शिन्या अपि प्रदर्शनं जातम्। अस्मिन् अवसरे संस्कृतभारती नाभानगरसहसंयोजकः मोहितमहोदयः, विस्तारकमनीषः, लीज़ामहोदया, कशिशमहोदया, लवप्रीतमहोदया, अंकुशमहोदयादयः उपस्थिताः आसन्।