राज्यस्य संस्कृतप्रतियोगितानां षोडशतम: रोमाञ्चित: उत्सव: हर्षोल्लासेन सम्पन्न:
💦900 अधिकप्रतिभागिनां तथा 1200 संस्कृतप्रेमिबान्धवानां उपस्थितौ विदुषाम् अधिकारिणां चासीत् भव्यमेलनम्। 💦 पौड़ीजनपदेन वरिष्ठवर्गे नाटके पुन: सम्प्राप्तं चलवैजयन्तीपदकं । 💦 कनिष्ठवर्गे चमोलीजनपदेन उपविजेतृ नाटके प्रथमवारं प्राप्तं चलवैजयन्तीपदकं । 💦 छात्रा: शिक्षका: आयोजका: च आनन्दपूर्णसमापने अभवन् नृत्यमग्ना: । 💦 निर्णायकानां व्यवस्थापकानाम् आसीत् महद्योगदानं
हरिद्वारम्। उत्तराखण्डसंस्कृत-अकादम्या आयोजनायाः 16 तमस्य संस्कृतमहोत्सवस्य अन्तर्गतं राज्यस्तरीयसंस्कृतछात्रप्रतियोगितायाः समापनं विजेतृप्रतिभागिनां पुरस्कारवितरणेन सह भूपतवालायाः महाजनभवने रोमाञ्चित: उत्सव: सम्पन्न:
समापनसत्रे मुख्यातिथिरूपेण संस्कृतशिक्षासचिवः दीपकः गैरोला, संस्कृतशिक्षानिदेशकः डॉ० आनन्दः भारद्वाजः, उपनिदेशकः संस्कृतशिक्षायाः डॉ० पद्माकरः मिश्रः, संस्कृतभारत्याः संगठनमन्त्री गौरवः शास्त्री, सहायकनिदेशकः नैनीतालतः यशोदाप्रसादः सेमल्टी, उत्तराखण्डसंस्कृत-अकादम्याः सचिवः डॉ० वाजश्रवा आर्यः, अकादम्याः शोधाधिकारी डॉ० हरीशचन्द्रः गुरुराणिः इत्यादिभिः संयुक्तरूपेण संस्कृतप्रतियोगितायाः विजेतृप्रतिभागिनः पुरस्कृताः अभवन्।
संस्कृतशिक्षासचिवः दीपककुमारः गैरोला सर्वेभ्यः विजेतृप्रतिभागिभ्यः शुभाशयं दत्त्वा उक्तवान् यत् संस्कृतप्रतियोगिताभिः छात्रछात्राणां व्यक्तित्वे प्रतिभासु च उत्कर्षः सम्पद्यते। संस्कृतशिक्षानिदेशकः डॉ० आनन्दः भारद्वाजः सर्वे प्रतिभागिनः उत्साहितवान् चोक्तवान् यत् प्रतियोगिताभिः प्रतियोगिनां चतुर्मुखः विकासः सम्भवः। उपनिदेशकः डॉ० पद्माकरः मिश्रः राज्यस्तरीयसंस्कृतप्रतियोगितानां प्रशंसां कृत्वा प्रतिभागिनां मार्गदर्शनं कृतवान्।
उत्तराखण्डसंस्कृत-अकादम्याः सचिवः डॉ० वाजश्रवा आर्यः सर्वान् अतिथीन् माल्यार्पणेन स्वागतं कृतवान् तथा आगतप्रतिभागिनां शिक्षकशिक्षिकानां संस्कृतविदुषां च आभारं प्रकटितवान्। प्रकाशनाधिकारी डॉ० किशोरीलालः रतूड़ी उक्तवान् यत् राज्यस्तरीयसंस्कृतछात्रप्रतियोगितायां सम्पूर्णराज्यतः 900 अधिकाः प्रतिभागिनः तथा 1200 संस्कृतप्रेमिबान्धवा: उपस्थिता: आसन्।
द्विदिवसीयराज्यस्तरीयसंस्कृतछात्रप्रतियोगितासु कनिष्ठवर्गे षट् तथा वरिष्ठवर्गे षट् इत्येवं द्वादशप्रतियोगितानां आयोजनं सम्पन्नम्। राज्यस्तरे कुलद्विलक्षचतुरशीतिसहस्रं (2,84,000) रूप्यकाणां पुरस्कारराशेः वितरणं कृतम्।
प्रतियोगितायां कनिष्ठवर्गस्य चलवैजयन्ती उधमसिंहनगरस्य तथा उपवैजयन्ती पौड़ी च चमोलीजनपदैः संयुक्तरूपेण प्राप्ता। वरिष्ठवर्गे चलवैजयन्ती पौड़ीजनपदैः तथा उपवैजयन्ती देहरादूनजनपदैः प्राप्ता।
अस्मिन्सन्दर्भे अकादम्याः प्रशासनिकाधिकारी लीला रावत:, अकादम्याः वित्ताधिकारी सत्येन्द्रडबरालः, सहायकनिदेशकः देहरादूनतः चण्डीप्रसादः घिल्डियालः, सन्दीपः उपाध्यायः, सामश्रवः आर्यः, डॉ० कञ्चनः तिवारी, कुलदीपः मैन्दोलः, डॉ० वेदव्रतः, प्रो० परमेशः, डॉ० नवीनः पन्तः, प्रकाशः तिवारी, डॉ० ललिता, डॉ० कमलेशकुमारः, डॉ० किशोरीलालः रतूड़ी, सहायकपुस्तकालयाध्यक्षः रमाकठैतः, दिव्या पालीवालः, पंकजनेगी, मोहितः, गणेशफोन्दणीः, विवेकः, डॉ० दिनेशचन्द्रः, डॉ० नरेन्द्रपाण्डेयः, डॉ० पुष्पाञ्जलिः अग्रवालः, डॉ० चन्द्रप्रकाशः उप्रेती, डॉ० जानकीत्रिपाठीः, डॉ० विजयकुमारः त्यागी, डॉ० महावीरः गैरोला, डॉ० अजीतकुमारः, डॉ० प्रियापाण्डेयः, डॉ० आनन्दः जोशी, डॉ० गिरीशचन्द्रः तिवारी, डॉ० वाणीभूषणः भट्टः, रोशनलालः गौडः, गौरवः शास्त्री, योगेशः शर्मा, डॉ० प्रकाशचन्द्रः जोशी इत्येतेभिः विभिन्नविद्यालयमहाविद्यालयानाम् आचार्यैः प्राचार्यैः च विद्वद्भि: विजेतृप्रतिभागिनः उत्साहिताः, कार्यक्रमस्य शोभा च संवर्धिता ।
कनिष्ठवर्गे संस्कृतसमूहनाटके हिमालयनपब्लिकविद्यालयः, देवाल:, चमोली प्रथमं स्थानं प्राप्तवान्। डायनस्टीमॉर्डन् अकादमी, छिनकीफार्म-खटीमा, ऊधमसिंहनगरं द्वितीयं स्थानं तथा ब्रिगेडियरविद्याधरजुयालसंस्कृत-उत्तरमध्यमा-विद्यालयः, सितोनस्यूँ, कोटखण्ड:, पौड़ी गढ़वालः तृतीयं स्थानं प्राप्तवान्।
समूहगाने श्रीविश्वनाथसंस्कृतमहाविद्यालयः, उत्तरकाशी प्रथमं स्थानं प्राप्तवान्। डायनस्टी मॉर्डन् अकादमी, छिनकी-फार्म-खटीमा, ऊधमसिंहनगरं द्वितीयं स्थानं तथा श्रीरामसंस्कृतविद्यापीठः, रानीखेत-अल्मोड़ा तृतीयं स्थानं प्राप्तवान्।
संस्कृतसमूहनृत्ये डायनस्टी मॉर्डन् अकादमी, छिनकी-फार्म-खटीमा, ऊधमसिंहनगरं प्रथमं स्थानं प्राप्तवान्। राजीवगांधी नवोदयविद्यालयः, देवलधारटिहरीगढ़वालः द्वितीयं स्थानं तथा राजकीयबालिका इण्टरकॉलेज्, गोपेश्वर:, चमोली तृतीयं स्थानं प्राप्तवान्।
आशुभाषणे आरवः सारस्वतः, श्रीमद्दयानन्द: आर्षगुरुकुलः, पौंधा, सहसपुरं, देहरादूनं प्रथमं स्थानं प्राप्तवान्। ललितमोहनः तिवारी, श्रीरामसंस्कृतविद्यालयः, रानीखेत-अल्मोड़ा द्वितीयं स्थानं तथा आयुषः बलूनी, ब्रिगेडियरविद्याधरजुयालसंस्कृत- उत्तरमध्यमा विद्यालयः, कोटखण्ड:, पौड़ी गढ़वालः तृतीयं स्थानं प्राप्तवान्।
वादविवादे पक्षे गुड्डुः रुवाली चन्दुः त्रिपाठी च, पीएमश्री अटलोत्कृष्ट: राजकीय: इण्टरकॉलेज् पतलोटनैनीतालः प्रथमं स्थानं प्राप्तवन्तौ। पक्षे सुमितः कुमारः व विपक्षे अभयः मुण्डेपी, ब्रिगेडियरविद्याधरजुयालसंस्कृत-उत्तरमध्यमा विद्यालयः, सितोनस्यूँ, कोटखण्ड:, पौड़ी द्वितीयं स्थानं तथा तृतीयं स्थानं पक्षे श्रेष्ठः डंडरियालः व विपक्षे उदितः उनियालः, श्रीजगद्देवसिंहः संस्कृतमहाविद्यालयः, सप्तर्षिः, हरिद्वारः प्राप्तवन्तौ।
श्लोकोच्चारणे दीपांशुः, डायनस्टी मॉर्डन् अकादमी, खटीमा, छिनकी-फार्म-खटीमा, ऊधमसिंहनगरं प्रथमं स्थानं प्राप्तवान्। द्वितीयं स्थानं कु० सलोनी, नागेन्द्र-इण्टरकॉलेज्, बजीरा, रुद्रप्रयागः तथा तृतीयं स्थानं गौरवः शर्मा, ब्रह्मचारी रामकृष्ण: संस्कृतमहाविद्यालयः, हरिद्वारं प्राप्तवान्।
वरिष्ठवर्गे संस्कृतसमूहनाटकस्पर्धायाम् प्रथमस्थानं श्रीरघुनाथकीर्ति-केंद्रीयसंस्कृतविश्वविद्यालयेन, देवप्रयाग-कोटखण्ड-पौड़ीगढ़वालेन प्राप्तम्। द्वितीयस्थानं डायनेस्टिमॉडर्न-अकाडेमी, छिनकीफार्म-खटीमा-ऊधमसिंहनगरेण तथा द्रोणस्थली-आर्षकन्या-गुरुकुलमहाविद्यालय-देहरादूनेन प्राप्तम्।
संस्कृतसमूहगानस्पर्धायाम् लक्ष्मणसिंहमहर-स्नातकोत्तरमहाविद्यालय-पिथौरागढेन प्रथमस्थानं प्राप्तं। के.वी.एम.पब्लिकस्कूल-हीरानगर-हल्द्वानी-नैनीतालेन द्वितीयस्थानं तथा श्रीविश्वनाथ-संस्कृतमहाविद्यालय- उत्तरकाशीद्वारा तृतीयस्थानं प्राप्तं
संस्कृतसमूहनृत्यस्पर्धायाम् श्रीरघुनाथकीर्ति-केंद्रीयसंस्कृतविश्वविद्यालय-देवप्रयागः, कोटखण्ड;, पौड़ीगढ़वालः प्रथमस्थानं प्राप्तवान् च डायनेस्टिमॉडर्न-अकाडेमी, छिनकीफार्मः, खटीमा, ऊधमसिंहनगरः द्वितीयस्थानं तथा इण्टरकॉलेज्, सातशिलिंगः, पिथौरागढः तृतीयस्थानं प्राप्तवान्
आशुभाषणस्पर्धायाम् गगनः सैनी, श्रीमद्दयानन्द-आर्षगुरुकुलः, पौन्धाः, सहसपुरं, देहरादूनं प्रथमस्थानं प्राप्तवान्। सोनुः शर्मा, संस्कारभारती-संस्कृत-उत्तरमध्यमाविद्यालयः, झीपः, अल्मोडाः द्वितीयस्थानं तथा ज्योतिप्रसादः, ब्रिगेडियर-विद्याधर-जुयाल-संस्कृत-उत्तरमध्यमविद्यालयः, कोटब्लॉकः, पौड़ीगढ़वालः तृतीयस्थानं प्राप्तवान्।
वादविवादस्पर्धायाम् पक्षे अरुणः कुमारः तथा विपक्षे अभिनन्दनः, श्रीमद्दयानन्द-आर्षगुरुकुलः, पौन्धाः, सहसपुरः, देहरादूनः प्रथमस्थानं प्राप्तवन्तौ। प्रज्ञा च शैलेशः, डॉ.शिवानन्दनौटियाल-स्नातकोत्तरमहाविद्यालयः, कर्णप्रयागः, चमोलीः द्वितीयस्थानं तथा वंशः भट्टः, आयुषः सिलस्वालः, श्रीदर्शन-संस्कृतमहाविद्यालयः, मुनिकीरिति, ऋषिकेशः, टिहरीगढ़वालः तृतीयस्थानं प्राप्तवन्तौ।
श्लोकोच्चारणस्पर्धायाम् अम्बिका, हे.न.ब.गढ़वालविश्वविद्यालयः, श्रीनगरः, पौड़ीः प्रथमस्थानं प्राप्तवती। मोनिका उप्रैती, राजकीयमहाविद्यालयः, मुवानीः, पिथौरागढः द्वितीयस्थानं तथा गायत्रीपाण्डेया, राजकीयबालिका-इण्टरकॉलेज्, लोहाघाटः, चम्पावतः तृतीयस्थानं प्राप्तवती।