संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डपौड़ीसंस्कृत भारती

गढवालविश्वविद्यालयस्य बिडलापरिसरे संस्कृतविभागेन सञ्चाल्यते षड्दिवसीया निश्शुल्कसरलसंस्कृत- सम्भाषणकार्यशाला

।। संस्कृतभाषायाः महत्त्वं केवलं व्याकरण-रचनातः परं न। अपितु एषा भाषा विचारस्य स्पष्टतां, तर्कशक्तिं सांस्कृतिकमूल्यानि च वहति। एषा कार्यशाला भाषायाः नवसंरचना-ज्ञानस्य स्रोतः इति स्पष्टं सिद्धं च करोति एतादृशप्रकारस्य प्रयासाः आधुनिकभारते संस्कृतस्य भाषीय-सांस्कृतिकधरोहरं च सुदृढं करिष्यन्तीति विदुषां मतैक्यं।।

हेमवतीनंदनबहुगुणागढ़वालविश्वविद्यालयस्य श्रीनगरस्य (बिड़लापरिसरस्य) संस्कृतविभागेन आयोजितं निःशुल्कं संस्कृतसम्भाषणकार्यशालायाः शुभारम्भः संस्कृतविभागाध्यक्षाया: प्राध्यापिका- कमलाचौहानमहाभागायाः नेतृत्वे समारभत्। अस्मिन अवसरे डॉ. आशुतोषगुप्तः, डॉ. बालकृष्णबधानी, डॉ. विश्वेषवाग्मी, डॉ. प्रीति, डॉ. सविताभण्डारी, डॉ. कपिलदेवपंवारः, पंकजमैन्दोली, कमलटिमोली च दीपप्रज्वलनं कृत्वा कार्यक्रमस्य आरम्भं कृतवन्तः।

निःशुल्कसरलसंस्कृतसम्भाषणकार्यशालायां सम्भाषणशिक्षकः कुलदीपमैन्दोला विभिन्नविषयाणां प्राध्यापकान् छात्रान् च संस्कृतभाषायां सम्भाषणं कारितवान्। तेन सरलतया सर्वान् संस्कृतभाषायां व्यवहार्यपदेषु अभ्यासं कारितम्। अस्मात् पूर्वं अपि मैन्दोलेन आई.आई.टी.रुड़कीमध्ये षड्मासान् यावत् २६ देशानां पञ्चसहस्रसंस्कृतजिज्ञासूनां संस्कृतशिक्षणं तथा आयुर्वेदमहाविद्यालये अपि संस्कृतशिक्षणं कृतम्। संस्कृतभारत्याः सम्भाषणे २००२ तः आरभ्य अद्यापि देशे च प्रदेशे च सततम् अन्तर्जालरूपेण प्रत्यक्षरूपेण च
संभाषणकार्यं क्रियते। तेन उक्तं यत् मम मार्गदर्शकः डॉ. आशुतोषगुप्तः, डॉ. बालकृष्णबधानी, सम्पूर्णः संस्कृतविभागः बिड़लापरिसरः च मम कृते आदरणीया:। एतेषां सौजन्येन एव संस्कृतगङ्गायाः सम्भाषणरूपेण प्रवाहः साध्यः। तेन अति-विशेषतया मुख्यशिक्षाधिकारीवर्यस्य नागेन्द्रबर्त्वालवर्यस्य च प्रधानाचार्यस्य मोहनसिंहरावतस्य विश्वासपूर्णं समर्थनं सर्वदा प्राप्तमिति च धन्यवाद: उक्तम्। एतदनुगुणं संस्कृतसेवायाः अवसरः लभ्यते इत्यपि सः प्रत्यभिज्ञातवान्।

कार्यशालायाः उद्घाटनसमारम्भे सर्वे मार्गदर्शकाः संस्कृतभाषायाः महत्त्वं प्रतिपाद्य अस्याः व्यवहारिकोपयोगं च भाषा-कौशलविकासं प्रेरितवन्तः। एषा कार्यशाला संस्कृतभाषायाः सरल-संवादात्मकं रूपं स्थिरीकर्तुं आयोजितं यत्। अनेन माध्यमेन छात्राः अन्ये च इच्छुकाः व्यक्तयः प्राचीनभाषायाः गहनं ज्ञानं प्राप्य आत्मसात्कर्तुं शक्नुवन्ति।

संस्कृतभाषायाः सन्दर्भे विद्वांसः कार्यशालायां विशेषवक्तव्येषु निम्नेषु विषयेषु मन्तव्यं प्रदत्तवन्तः—

संस्कृतभाषा: वैज्ञानिकव्याकरणं संवादमहत्त्वं च

संस्कृतं भारतस्य प्राचीनं समृद्धं च भाषा न केवलं धार्मिकं साहित्यिकं च परम्परायाः आधारः, अपितु वैज्ञानिकदृष्ट्या अपि अतीव महत्वपूर्णं। हेमवतीनंदनबहुगुणागढ़वाल- विश्वविद्यालयस्य बिड़लापरिसरस्य कार्यशालायां प्रथमदिने अध्यापकाः छात्राश्च संस्कृतभाषायां संवादं कृतवन्तः। एषः अनुभवः सर्वेषां कृते रुचिकरः प्रेरणादायकः च अभवत्।

संस्कृतसंवादस्य महत्त्वम्

संस्कृतं सामान्यतः कठिनं शास्त्रीयाध्ययनायै सीमितं च इति भाव्यते। किन्तु एतादृशकार्यशालायाः माध्यमेन एषा धारणा परिवर्तिता। आधुनिकविषयेभ्यः संस्कृतभाषायाम् चर्चां कृत्वा तस्याः आधुनिकविज्ञानप्रौद्योगिकीभाषारूपेण क्षमता प्रमाणितः।

संस्कृतव्याकरणस्य वैज्ञानिकता

पाणिनेराचितम् “अष्टाध्यायी” संस्कृतव्याकरणस्य आधारः विश्वे प्रथमं वैज्ञानिकं च व्याकरणग्रन्थः। धातुप्रत्ययादीनां क्रमबद्ध: उपयोगः भाषायाः संरचना व्यवस्थितं च करोति।

आधुनिकशिक्षायां संस्कृतम्

संस्कृतभाषायाः महत्त्वं केवलं व्याकरण-रचनातः परं न। अपितु एषा भाषा विचारस्य स्पष्टतां, तर्कशक्तिं सांस्कृतिकमूल्यानि च वहति। एषा कार्यशाला भाषायाः नवसंरचना-ज्ञानस्य स्रोतः इति स्पष्टं सिद्धं च करोति एतादृशप्रकारस्य प्रयासाः आधुनिकभारते संस्कृतस्य भाषीय-सांस्कृतिकधरोहरं च सुदृढं करिष्यन्तीति विदुषां मतैक्यं।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button