उत्तराखण्डपौड़ी

कार्यशालायाः मुख्यं उद्देश्यं संस्कृतस्य शिक्षणं , शिक्षणं च प्रत्यक्षानुभवेन, संख्याविधानं, समयनिर्देशनं वस्तूनां प्रयोगेण च सम्भाषणं सम्पादयितुं यत्नः।

गढ़वालविश्वविद्यालयस्य बिडलापरिसरस्य संस्कृतविभागेन सञ्चाल्यते संस्कृतसम्भाषणकार्यशाला

संस्कृतविभागाध्यक्षया प्रो. कमलाचौहानमहोदयाया: नेतृत्वे सहायकप्राध्यापकैः प्राध्यापकैः च सह संयुक्तं हेमवतीनन्दन- बहुगुणाकेन्द्रीयविश्वविद्यालयस्य बिड़लापरिसरस्य चतुर्थदिवसे अपि संस्कृतसम्भाषणकार्यशाला सफलतया निरन्तरं प्रवर्तते। अस्यां कार्यशालायां विद्वद्भिः उक्तं यत् संस्कृतभाषा भारतीयसंस्कृतेः परम्परायाश्च आत्मा अस्ति। एषा केवलं प्राचीनग्रन्थानां वेदानां च भाषा न, अपितु अद्यतनकालस्य अपि स्थायित्वं प्राप्यते।

एतस्या: कार्यशालायाः मुख्यं उद्देश्यं संस्कृतस्य शिक्षणं , शिक्षणं च प्रत्यक्षानुभवेन, संख्याविधानं, समयनिर्देशनं वस्तूनां प्रयोगेण च सम्भाषणं सम्पादयितुं यत्नः।

कार्यशालायां डॉ. बालकृष्णबधानीमहोदयः प्रतिभागिनः संस्कृतभाषायां प्रेरितवन्तः। ते उक्तवन्तः यत् संस्कृतं केवलं पठनपाठनस्य विषयः न, अपितु एषा जीविता भाषा अस्ति, या अस्माभिः दैनिकजीवने उपयोजनीया। ततः परं डॉ. आशुतोषगुप्तः संस्कृतगीतानां वाचनं शिक्षयित्वा प्रतिभागिनः प्रेरितवन्तः। तेन गीतैः संस्कृतस्य प्रचारं संवर्धनं च कर्तुं मनसा, वाचा, कर्मणा च प्रयत्नं आवश्यकं इति सन्देशः दत्तः।

आशुतोषगुप्तस्य मतं यत् यदि माता सुन्दरी न अपि, तदा अपि तस्याः अनादरं न कर्तव्यम्। तथैव, संस्कृतम् अस्माकं मातृभाषा अस्ति। एषा केवलं भाषा न, अपितु अस्माकं परम्परा, संस्कृति:, जीवनमूल्येषु च आधारभूता अस्ति। तस्याः रूपं यदपि भवेत्, सा अस्माभिः सदा पूजनीया।

संस्कृतं सरला स्पष्टा च अस्ति। अन्यासु भाषासु यः कठिनः अस्ति, सः संस्कृतेन सुलभं व्यक्तुं शक्यते। संस्कृतस्य व्याकरणं सुगठितं सुव्यवस्थितं च, यत् भाषायाः सौन्दर्यं स्थायित्वं च वर्धयति।

आशुतोषगुप्तस्य अभिप्रायः यत् यदि संस्कृतं रक्षितुम् इच्छामः, तर्हि अस्माभिः तस्या दैनिकजीवने प्रयोगं कर्तव्यम्। संस्कृतं केवलं पाठ्यविषयं न, अपितु वार्तालापभाषा भवेत्। बालकाः यदि लघुवाक्यैः संवादम् आरभन्ते, तदा संस्कृतं पुनः सजीविता भवेत्।

अस्मिन्नेव कार्यशालायां प्रतिदिनं सप्ततिः छात्राः सक्रियतया सहभागं कुर्वन्ति। ते संस्कृतेन वार्तालापकौशलं विकसितवन्तः। संस्कृतस्य सरलं सौन्दर्यं च अनुभव्यमानं भवति।

अंग्रेजीविभागस्य डॉ. सविताभण्डारी अपि अस्यामेव कार्यशालायां भागं कृत्वा अन्येषां प्रतिभागिनः प्रेरयन्ति। एषः उदाहरणः प्रदर्शयति यत् भाषाणां बन्धनं न अस्ति।

अस्य कार्यशालायाः प्रमुखं पक्षं यत् छात्राः संस्कृतवार्तालापं आत्मसात्कृतवन्तः। एषा केवलं भाषाशिक्षायाः न, अपितु सांस्कृतिकमूल्येषु स्थिरीकरणं च साध्यते।

हेमवतीनन्दनबहुगुणाविश्वविद्यालयस्य बिड़लापरिसरस्य संस्कृतविभागेन आयोजिता सरलसंस्कृतसम्भाषणकार्यशाला भारतीयसमाजे संस्कृतभाषायाः पुनर्जीवनं प्रति महान् प्रयासः अस्ति। एषा कार्यशाला न केवलं भाषा पुनर्जीवनाय, अपितु अस्माकं प्राचीनसमृद्धे: संवर्धनाय च अद्भुतं साधनं भवति।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button