संस्कृतभारत्या: अखिलभारतीयगोष्ठ्यां श्रीसुधींद्रतीर्थ- उत्तराखंडसांस्कृतिकवैभवप्रदर्शिन्या: अभवत् उद्घाटनं
उत्तराखण्डस्य संस्कृते: संस्कृतसम्पद: छवि: आसीत् रमणीया। संगोष्ठ्यां उत्तराखण्डस्य गढ़वाल-कुमौं-वेषभूषा आसीत् आकर्षणकेन्द्रे।
हरिद्वारं। शनिवासरे वेदव्यासमन्दिर-आश्रमे संस्कृतभारत्या: अखिलभारतीयगोष्ठ्याः पूर्वदिने श्री सुधीन्द्रतीर्थ- उत्तराखण्डसांस्कृतिकवैभवप्रदर्शिन्या: उद्घाटनं दीपप्रज्वलनेन कृतम्। यत्र मुख्यातिथि: व्यासमंदिर-आश्रमाध्यक्ष: के. श्री निवासप्रभु:, संस्कृतभारत्या: अखिलभारतीयाध्यक्ष: प्रो. गोपबन्धुमिश्र:, प्रो. कमला भारद्वाज. उपाध्यक्षा, दिनेशकामत: संगठनमंत्री, जयप्रकाश: सहसंगठनमंत्री, श्रीमती जानकी त्रिपाठी प्रदेशाध्यक्षा संस्कृतभारती-उत्तरांचलं, प्रो. लक्ष्मीनिवासपाण्डेय: कुलपति: कामेश्वरसिंहदरभंगा विश्वविद्यालयबिहार:, श्री सत्यनारायणभट्ट: अखिलभारतीयमहामन्त्री , उत्तराखण्डसंस्कृतविश्वविद्यालय- हरिद्वारस्य प्रो. कुलपति: दिनेशचन्द्रशास्त्री तथा संस्कृतशिक्षा परिषद्-उत्तराखण्डत: निदेशक: डॉ. आनंदभारद्वाज: आदिभि: भाग: कृत:
अस्यां प्रदर्शन्यां उत्तराखण्डस्य संस्कृतिः विशेषतया प्रकाशिता अभवत्। यस्मिन् संस्कृतविद्वांसः उक्तवन्तः यत् उत्तराखण्डं ‘देवभूमि:’ इति नाम्ना प्रसिद्धम् अस्ति, अत्रत्य प्राकृतिकधार्मिकसांस्कृतिकसम्पदा सम्पूर्णे विश्वे विशेषस्थानं स्थापयति । अत्रत्याः पवित्राः नद्यः – गङ्गा, यमुना, अलकनन्दा, भागीरथी च – शतशः धार्मिकसंस्था: मानवकल्याणकारका: सन्ति । पंचप्रयागे – विष्णुप्रयाग:, नंदप्रयाग:, कर्णप्रयाग:, रुद्रप्रयाग:, देवप्रयाग: इत्येषां धार्मिकमहत्वम् अपारम् अस्ति। यद्यपि पंचकेदारेषु – केदारनाथ:, तुंगनाथ:, रुद्रनाथ:, मध्यमहेश्वर:, कल्पेश्वर: आदय: शिवभक्तान् पुनाति। पंचबद्रिषु बद्रीनाथ:, योगध्यानबद्री, भविष्यबद्री, आदिबद्री, वृद्धबद्री आदय: भगवद्विष्णो: विश्वासस्य प्रतीकोस्ति। तदतिरिक्तं , गोधूमः, मण्डुआ, इत्यादीनि धान्यानि अत्र कृषिपरम्परायाः आधाराः भवन्ति । केदारनाथः, बद्रीनाथः, जागेश्वरधाम् इत्यादीनि प्राचीनमन्दिराणि अत्रत्यानां सांस्कृतिकप्रदर्शनानां सह अस्याः पवित्रभूमिः अद्वितीया वर्तते ।
संस्कृतभारत्याः एषः प्रयासः संस्कृतस्य पुनरुत्थानं, भाषायाः माध्यमेन वैश्विकसमुदायानां संयोजनाय च निरन्तरं वर्तते। प्रदर्शन्यां उत्तराखण्डस्य संस्कृते: संस्कृतस्य च सम्पद: प्रतिबिम्बं मनमोहकम् आसीत् तथा च संगोष्ठ्यां उत्तराखण्डस्य गढ़वालस्य कुमाऊनस्य च वेषभूषाः रमणीया आसीत्।
वक्तव्यम् अस्ति यत् उत्तराखण्डस्य हरिद्वारस्य व्यासमन्दिरे संस्कृतभारत्याः “अखिलभारतीयगोष्ठी” आयोजिता अस्ति, यस्मिन् रविवासरे आदरणीयः मुख्यमन्त्री श्री पुष्करसिंहधामीः कार्यक्रमस्य उद्घाटनं करोति।