उत्तराखण्डसंस्कृत भारतीहरिद्वार

संस्कृतं सर्वेषां मानवजातेः विकासस्य भाषा–“मुख्यमन्त्री धामी”

हरिद्वारे पुष्करधामीवर्येण संस्कृतभारत्या: अखिलभारतीयगोष्ठ्या: उद्घाटनं कृतं । *द्वितीयराजभाषया संस्कृतेन नामोल्लेखनाय सर्वकारीयकार्यालया: समादिष्टा: । *आधुनिकयुग: संस्कृतयुग: - 'चिन्मयान्मुनि:' *संस्कृतभारत्या: संस्कृतसम्भाषणेन भारतस्य गौरवं विश्वस्तरे सम्प्राप्तं 27 देशेषु संजायते कार्यं। * गैरसैंणविधानसभायाम् मन्त्रिणां विधायकानाम् अपि अभवत् संस्कृतसम्भाषणम्। * उत्तराखण्ड: संस्कृतसंर्वधनाय प्रयत्नशील:

हरिद्वारं। संस्कृतभारत्याः अखिलभारतीयगोष्ठी 15 सितम्बर 2024 दिनाङ्के श्रीव्यासमन्दिरे, हरिपुरकलाहरिद्वारे आरब्धा। यस्या: उद्घाटनं मुख्यमंत्रीपुष्करसिंहधामीवर्येण दीपप्रज्ज्वालनेन कृतं। अवसरेस्मिन् स्वामीचिदानंदसरस्वतीमहाराज: अध्यक्ष:, परमार्थनिकेतन-आश्रम-ऋषिकेशत:, कार्यक्रमाध्यक्ष: प्रो.गोपबंधुमिश्र: (अखिलभारतीयाध्यक्ष: संस्कृतभारतीत:), विशिष्टातिथि: श्रीमती जानकी त्रिपाठी (प्रान्ताध्यक्षा संस्कृतभारती-उत्तराञ्चलत:) दिनेशकामत: संस्कृतभारती-अखिलभारतीयसंगठनमंत्री, प्रो. वाचस्पति: मिश्र:, डॉ. अंकितवर्मा आदय: उपस्थिता: आसन् । डॉ. वेदव्रतः सर्वेषां अतिथिनां परिचयं कारितवान्। डॉ. अरुणमिश्र: वैदिकमंगमलमाचरितवान् । रुद्राक्षमालया, गंगाजलेन, अंगवस्त्रेण च सर्वेषाम् अतिथीनां अञ्जनीमूर्तैः स्वागतं च सञ्जातं।

*संस्कृतं न जानाति स: भारतं कथं ज्ञास्यति , भारतस्य परिचय: तु संस्कृतभाषया एव– “श्रीदिनेशकामतः”*

अखिलभारतीयसङ्गठनमन्त्री संस्कृतभारती श्रीदिनेशकामतः उक्तवान् यत् संस्कृतभारतीसंस्था २६ देशेषु संस्कृतकार्यं कुर्वती अस्ति। सरलसंस्कृतसम्भाषणेन सह संस्कृतभारती सरलसंस्कृतं, पुस्तकलेखनं, निःशुल्कस्वाध्ययनकेन्द्रं, दशदिवसीयसम्भाषणशिबिरं,बालकेन्द्रं,गीताशिक्षणकेन्द्रं, संस्कृतसप्ताहं ,खण्डस्तरे, जिल्लास्तरे, राज्यस्तरे च आयोजयति । लोकसभायां राज्यसभायां च नवनिर्वाचितैः सांसदैः संस्कृतेन शपथग्रहणं कृत्वा सर्वेभ्यः धन्यवाद: प्रदत्त: । उत्तराखण्डराज्यस्य द्वितीया राजभाषा संस्कृतम् अस्ति तथा च उत्तराखण्डे विद्यालयशिक्षणे संस्कृतं अनिवार्यं भवेत्। नूतनशिक्षानीत्या: अन्तर्गतं संस्कृतभाषा तृतीयकक्षातः १२ कक्षापर्यन्तं भारतीयज्ञानपरम्परायाः अन्तर्गतं विषयरूपेण अनिवार्यतया पाठनीया। स आह यत् संस्कृतं न जानाति स: भारतं कथं ज्ञास्यति। सः सर्वान् संस्कृतभाषायां वक्तुं कार्यं कर्तुं च प्रेरितवान् ।

कार्यक्रमे पावनसानिध्ये स्वामीचिदानन्दसरस्वती उक्तवान् यत् संस्कृतभारती अद्य देशस्य अन्तः विदेशपर्यन्तं संस्कृतसम्भाषणस्य गौरवं प्राप्तवती अस्ति। आगमिष्यमाणः युगः संस्कृतस्य भविष्यति इति सः अवदत्।

*संस्कृतभाषायां शब्दोच्चारणे वैज्ञानिकता अस्ति आंग्लसदृश: अक्षर: विलुप्त: न भवति*

मुख्यमन्त्री श्रीपुष्करसिंहधामी, अखिलभारतीयगोष्ठीम् सम्बोधयन् उत्तराखण्डपक्षतः गोष्ठ्या: सम्पूर्णभारतीयप्रतिनिधिनां स्वागतं कृतवान्। सः अवदत् यत् अद्यत्वेऽपि संस्कृतं केवलं व्यञ्जनं न अपितु संस्कृतं सर्वेषां मानवजातेः विकासस्य भाषा अस्ति, संस्कृतं सर्वभाषाणां जननी अस्ति। प्राचीनकालात् एव अद्यपर्यन्तं संस्कृतम् अस्माकं ज्ञानभाषा अस्ति। वैश्विकसन्दर्भस्य प्रमाणरूपेण सः अवदत् यत् अन्ताष्ट्रियस्तरस्य ग्रहनक्षत्राणां कालगणनायाः औषधानां च कृते संस्कृतग्रन्थाः प्रमाणरूपेण उद्धृताः भवन्ति। संस्कृतभाषायाः अक्षरोच्चारणस्य वैज्ञानिकतां व्याख्याय सः अवदत् यत् संस्कृतस्य शब्दोच्चारणे कोऽपि अक्षरः नष्टः न भवति, आङ्ग्लभाषायां तु नष्ट: भवति। अपि च उक्तं यत् संस्कृतं सम्पूर्णतया शुद्धा वैज्ञानिकभाषा अस्ति।

*संस्कृतवाक्येषु शब्दानाम् अग्रे पृष्ठे प्रयोगे अर्थ: प्रभावित: न भवति यद्यपि अन्यभाषासु अर्थ: परिवर्तित: भवति*

संस्कृतव्याकरणस्य उदाहरणं दत्त्वा मुख्यमन्त्रिणा अवदत् यत् संस्कृतभाषायां वाक्ये शब्दान् अग्रे-पश्चात् स्थापनेन अपि तस्य अर्थे कोऽपि प्रभावः न भवति, अन्यभाषासु तु अर्थविविधता भवति। सः अवदत् यत् संस्कृते एकस्मिन् अक्षरे श्लोकं रचयितुं सामर्थ्यं वर्तते। विश्वे अन्यस्या: कस्यापि भाषायाः एतादृशी शक्तिः नास्ति । अस्मिन् समये मुख्यमन्त्री ग्रीष्मकालीनराजधानी गैरसैणसभायां आयोजितस्य संस्कृतसम्भाषणस्य अपि उल्लेखं कृतवान् । सः अवदत् यत् वयं राज्ये संस्कृतसंर्वधनस्य कृते प्रयत्नाः जायन्ते। संस्कृतभारती-उत्तराञ्चालस्य न्यासी प्रो. प्रेमचन्दशास्त्री सर्वातिथिभ्यः धन्यवादं दत्तवान्।

*उत्तराखण्डे संस्कृतग्रामद्वयं भन्तोलाबागेश्वरं च किमोठाचमोली*

डॉ. प्रकाशपन्तः उत्तराखण्डस्य स्थानस्य परिचयं कुर्वन् अवदत् यत् उत्तराखण्डे १२ शताब्द्याः संस्कृतलेखनपरम्परायाः प्रमाणानि सन्ति। राजाललितसुरदेवस्य लेखनानि वर्णयन् सः अवदत् यत् तत्कालीनस्य पर्वतराज्यस्य राजभाषा अपि संस्कृतम् एव आसीत् । अद्यत्वेऽपि उत्तराखण्डे भन्तोला (बागेश्वरं) किमोठा (चमोली) इति संस्कृतग्रामद्वयं वर्तते ।

डॉ. भारतीकन्नौजिया शान्तिपाठेन सत्रं समाप्तं कृतवती। प्रान्तमन्त्री गिरीशतिवारी मंचसंचालनं कृतवान् । अस्मिन् अवसरे उत्तराखण्डसंस्कृतविश्वविद्यालयस्य कुलपतिः प्रो.दिनेशचन्द्रशास्त्री, संस्कृतशिक्षासचिवः श्री दीपककुमारः, संस्कृतशिक्षानिदेशकः डॉ. आनन्दभारद्वाजः, प्रो.लक्ष्मी निवासपाण्डेयः, दत्तात्रेयवर्य: , डॉ. संजीवः, डॉ. सचिनकठाले, डॉ. देवेन्द्रपण्ड्या, च भारतस्य सर्वेभ्यः राज्येभ्यः संस्कृतभारत्या: प्रतिनिधय: उपस्थिताः आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Back to top button