उत्तराखण्ड

रुद्रप्रयागजनपदे जखोलीमहाविद्यालये संस्कृतसप्ताहोत्सव: प्रवर्तते

महोत्सवः पञ्चविंशत्युत्तरद्विसहस्रतमस्य वर्षस्य अगस्तमासस्य नवदशदिनाङ्कात् त्रयोविंशतिदिनाङ्कपर्यन्तं समायोजितोऽवर्तत

श्रूयते यत् प्रतिवर्षं श्रावणीपूर्णिमायां तिथौ संस्कृतदिवसः सकलैरपि गीर्वाणवाणीप्रेमिभिः सोत्साहं मान्‍यते। तमेव प्रसङ्गम् अनुसृत्य देवभूमौ उत्ताराखण्डे सर्वत्र संस्कृतमासस्य संस्कृतसप्ताहस्य च भव्यम् आयोजनं प्रचलति।

अस्मिन्नेव क्रमे रुद्रप्रयागजनपदान्तर्गते जखोलीनगरे स्थिते राजकीयमहाविद्यालयेऽपि संस्कृतसप्ताहोत्सवस्य आयोजनं कृतम्। अयं महोत्सवः पञ्चविंशत्युत्तरद्विसहस्रतमस्य वर्षस्य अगस्तमासस्य नवदशदिनाङ्कात् त्रयोविंशतिदिनाङ्कपर्यन्तं समायोजितोऽवर्तत।

उत्सवस्य शुभारम्भो नवदशदिनाङ्के महाविद्यालयात् प्रवृत्तया संस्कृतशोभायात्रया समभवत्। अस्याः यात्रायाः नेतृत्वं प्राचार्यावर्याभिः डाक्टर्माधुर्या महोदयाभिः ऊढम्।

विंशतिदिनाङ्के द्वितीयदिवसे विभागेन भगवद्गीतायाः सामूहिकपारायणम् आयोजितम्। अस्मिन् कार्यक्रमे राजनीतिशास्त्रविभागाध्यक्षाः डाक्टर्शर्मकपिलमहाभागाः मुख्यवक्तारः मुख्यपाठकर्तारश्चासन्।

एकविंशतिदिनाङ्के तृतीये दिवसे छात्रेषु संस्कृतोत्साहवर्धनार्थं विविधाः प्रतियोगिताः सम्पन्नाः। तत्र चित्रफलकस्पर्धायां श्वेता प्रथमं स्थानं विजयलक्ष्मीः द्वितीयं यशोदा तृतीयं स्थानं प्राप्तवत्यः। अमृता च सान्त्वनापुरस्कारेण सम्मानिता।

तथैव भाषणप्रतियोगितायां यशोदया प्रथमं स्थानम् अमृतया द्वितीयं श्वेतया च तृतीयं स्थानम् अलङ्कृतम्। साहिनानाम्नी छात्रापि स्वकीयया सहभागितया प्रशंसिताऽभवत्।

एतासां प्रतियोगितानां निर्णायकमण्डले भूगोलविभागाध्यक्षाः डाक्टर्नन्दलालमहोदयाः अर्थशास्त्रविभागाध्यक्षाः डाक्टर्नेगिदिनेशमहाशयाः राजनीतिशास्त्रविभागाध्यक्षाः डाक्टर्शर्मकपिलवर्याश्च स्वदायित्वं सम्यङ् निरवहन्।

अस्य समग्रस्य कार्यक्रमस्य संयोजिका संस्कृतविभागाध्यक्षा डाक्टर्भारतीमहोदया आसीत्। सर्वैः आचार्यैः कर्मचारिभिः छात्रैश्च दत्तपूर्णसहयोगेन महोत्सवोऽयं साफल्यस्य शिखरान् अस्पृशत्।

आयोजकैः कथितं यद् आगामिषु दिवसद्वयेऽपि संस्कृतसम्बद्धाः बहवः कार्यक्रमाः भविष्यन्ति येन छात्राणां संस्कृतानुरागः प्रवर्धेत॥

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button