संस्कृते एव अस्माकं भारतीयसंस्कृति: निहिता अस्ति — “डॉ.राजकुमारतिवारी”
वृत्तप्रेषिका- डॉ.नेहा मिश्रा । अटलबिहारीवाजपेयीविश्वविद्यालये संस्कृत-अध्ययनकेन्द्रे संस्कृतदिवससमारोह आयोजित: अभवत्। मुख्यवक्तारूपेण अत्र डॉ. राजकुमारतिवारी महोदय: आसीत्। अनेन उक्तं यत् संस्कृते एव अस्माकं भारतीयसंस्कृति: निहिता अस्ति, अतः संस्कृतिरक्षणार्थं संस्कृतस्य संरक्षणं सर्वत्र पठन-पाठनं संस्कृतमयवातावरणस्य निर्माणञ्च आवश्यकं वरीवर्ति।
सभाध्यक्षरूपेण कुलगुरुः डॉ. अरुणदिवाकरनाथवाजपेई महोदय: विराजितवान्। अयं महोदयः संस्कृतविषये स्वीयां विशिष्टां श्रद्धां प्रकटयति। विशिष्टवक्तारूपेण विराजितवान् अत्र डॉ. शरदमिश्रमहोदय: । अनेन महोदयेन संस्कृतविषये विशिष्टं कार्यं कृतम्।
स्वागतभाषणं कृतवती संस्कृत-अध्ययनकेन्द्रस्य केन्द्राधिकारी महोदया डॉ. पूजा पाण्डेयमहोदया। केन्द्रशिक्षिका डॉ. नेहामिश्रा मञ्चसञ्चालनं कुर्वन्ती प्रास्ताविकमुद्बोधयति। सा उक्तवती यत् भारतसर्वकार: संस्कृतस्य रक्षणार्थं विशेषप्रयत्नशीलो वर्तते, अतः यदि वयम् अपि प्रयत्नं कुर्म: तर्हि संस्कृतभाषाया: रक्षणं अवश्यमेव भविष्यति।
धन्यवादज्ञापनं कृतवान् छात्रकल्याणअधिष्ठाता डॉ. एच. एस. होता महोदय:।
कार्यक्रमेऽस्मिन् विश्वविद्यालयस्य सर्वे शिक्षका: शिक्षिका: छात्रछात्राश्च उपस्थिता: आसन्।