संस्कृतभारतीपञ्जाब-प्रान्तेन आयोजिता भव्या पुस्तकप्रदर्शिनी
सितम्बरमासस्य प्रथमे दिनाङ्के संस्कृतभारतीपञ्जाबप्रान्तेन दयानन्द-पब्लिक-स्कूल पाण्डुसरनाभानगरे भव्या पुस्तकप्रदर्शिनी आयोजिता । ध्यातव्यमस्ति यत् नाभास्थेन दयानन्द-पब्लिक-स्कूल-पाण्डुसरेण त्रिदिवसीय-साहित्य-पुस्तकमेला-आयोजितमासीत् तत्रैव संस्कृतभारती-जनपदाध्यक्षस्य श्री निगमस्वरूपमहोदयस्य कुशल-नेतृत्वे संस्कृतपुस्तकानां प्रदर्शिनी अपि समायोजिता। प्रदर्शिनीं द्रष्टुं विभिन्नेभ्यः विद्यालयेभ्यः सशिक्षकं छात्रछात्राः समागताः। छात्राणां पितृभ्यां सहितं सामाजिकजनाः अपि भागं गृहीतवन्तः। कार्यकर्तारः तत्रागतान् सामाजिकान् छात्राञ्च विगतशिबिराणां विषये, नाभानगरे प्रचलिष्यमाणानां संस्कृत-संभाषण-शिबिराणां विषये च सूचनां स्फुटिकृतवन्तः । अस्मिन् अवसरे प्रान्तीयसहमन्त्री अजय-आर्यः अपि समागतः। येन विद्यालयस्य प्राचार्यः श्रीमान् सुभाष-भारद्वाजाय सम्मानपूर्वकं संस्कृतपुस्तकं समर्प्य, प्रदर्शिन्यायाः समायोजनाय सहयोगार्थं तस्य धन्यवादं च कृतम् । अस्यां पुस्तकप्रदर्शिन्यां नाभानगरविस्तारकः मनीषकुमारः श्रीगिरधारीलालमहोदयः, नगरसंयोजकः श्रीजीवनशर्मामहोदयः, सहसंयोजकः श्रीमोहितमहोदयः, व्यवस्थाप्रमुखः श्री-अनिलमहोदयः, संपर्कप्रमुखः श्रीकांतमहोदयः, शिबिरशिक्षिका अर्शदीपमहोदया च विशेषरूपेण योगदानं कृतवन्तः ।