संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
पंजाबसंस्कृत भारती

महन्त-श्रीकमलजीत-सिंह-शात्रिणा सह जातं शिष्टाचार-सङ्गमम्

अद्य 09/08/24 दिनाङ्के पंजाबस्य निर्मल-सम्प्रदायस्य विद्वद्-महन्तेन श्रीकमलजीतशास्त्रिणा सह संस्कृतभारत्या: अधिकारीगणानां शिष्टाचारं मेलनमभवत् । मेलनेऽस्मिन् श्रीकमलजीतशास्त्रिणा उक्तं यत् संस्कृतं सर्वेषां भारतीयानां कृते अनिवार्यमस्ति । अनेन विना
जना: भारतस्य संस्कृतिं, एतस्या: ग्रन्थाञ्च सम्यक्प्रकारेण न अवगन्तुं शक्नुवन्ति ।

सिख्खसम्प्रदाये अपि संस्कृतं विना गुरुवाण्या: सम्यग् अर्थावगमनं न भवति , अत: सिख्खसाहित्यस्य विशेषज्ञानाय संस्कृतस्य ज्ञानम् आवश्यकमस्ति। शास्त्रिमहोदय: काश्यस्थ-निर्मल-सम्प्रदायस्य मठे निवस्य दशवर्षाय संस्कृतभाषामधीतवान्, यत्र स: व्याकरणादिसहितं वेदवेदान्तसाहित्यविषयाणां सम्यग्ज्ञानं प्राप्तवान् ।

सम्प्रति पंजाबे निवस्य मोगासमीपे निजमठे एव एष: वेदान्त-सांख्यादिग्रन्थान् पाठयन्नस्ति, पुन: तत्रैव संस्कृत-महाविद्यालय-स्थापनस्य अस्य इच्छा वर्तते येन माध्यमेन पञ्जाब-जना: संस्कृतभाषामवगम्य गुरुवाणीं सम्यग्तया अवगन्तुं शक्नुयु: । अस्मिन् शिष्टाचारसङ्गमे संस्कृतभारती-पंजाबस्य अध्यक्ष: डॉ. वीरेन्द्रकुमार: , पंजाबप्रान्तस्य सह-मन्त्री श्री अजयकुमार-आर्य: , पटियाला-विभाग-सहसंयोजक: डॉ. ओमनदीपशर्मादय: उपस्थित: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button